________________
२२४२ वशिष्ठस्मृतिः
[ सप्तमोहिरण्मयं च रत्नानि पंचत्वक्यं (?) पंचह्नपात् । गन्धपुष्पाक्षतान् दर्भान्कलशेषु विनिक्षिपेत् ॥६०॥ महादिविस्थ (?) कुंभेषु वासुदेवाय (?) स्तथा । विदिक्संस्थित कुंभेषु(?) नज्यानन्दपः क्रमात् ॥६१॥ पूजनीया यथोक्त ने गन्धपुष्पनिवेदनैः। देवस्य पुरतो मध्ये पूर्णकुम्भम्प्रपूजयेत् ॥६२॥ तण्डुलोपरि संस्थाप्य पवित्रोदकपूरितम् । सौवर्ण दर्भरजतं मौक्तिकं तुलसीदलम् ॥६३॥ एलालवंगकंकोलं पत्रं (च) श्रीफलन्तथा । कुष्ट जाती फलं पुष्पं धात्रीरक्तोत्पलं तथा ॥६४॥ तिलां त्रयाल्दूवीं (?) चन्दनं गुग्गुलुं तथा । तस्मिन्कुम्भे विनिक्षिप्य पूजयेच्च विधानतः ॥६५॥ तस्मिन्मूर्वा(?)हरिवन्दे जलशायिनमव्ययम् । अष्टाक्षरविधानेन जपेच्च कुसुमादिभिः ॥६६॥ चतुर्दिक्षुजपेत्सम्यक्चतुर्वेदीञ्च ऋत्विजः। चत्वारो वैष्णवास्तत्र चतुर्मन्त्रास्तथा जपेत् (युः) ॥६॥ व्यापकान्मंत्ररत्नंचतुर्मन्त्रा इति स्मृतः। पुराणं शान्तिपठनं श्रीगीतापठनन्तथा ॥६॥ सहस्रनामपठनं कुर्यादत्र समाहितः । चतुर्दिक्षु तथाक्रम्यमान्यवेदिति(?) च कल्पयेत् ॥६६॥ अग्निसंस्थापनं कृत्वा इध्माधानादि वेदकं । होमं कुर्यात्ततः पश्चात्सूक्त विष्णुप्रकाशकैः ॥७॥