SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] विष्णुस्थापनविधिवर्णनम् २२३४ तस्मात्तु वैष्णवास्त्वेव नियोज्या यज्ञकर्मसु । शास्त्र युक्त ने विधिना यः कुर्यात्स्थापनहरेः ।।२६॥ पुण्याहवाचनं कुर्याद्वष्णवैर्वेदपारगैः । देवस्य प्रतिमां पश्चात्स्नापयेन्मन्त्रवारिभिः ॥२७॥ पञ्चामृतैः पञ्चगव्यैः स्नापयेत्तदनन्तरम् । आनीय चतुरस्नेत्र (१) कलशात्सादयेच्छुभात् ॥२८॥ पूरयित्वा शुभजलैः पंचरत्नावमिश्रितैः । कुशदूर्वाक्षतजलं चंदनै गौरसर्षपान् ।।२६।। हिरण्यं तुलसी तत्र कलशेषु विनिक्षिपेत् । तेषु सन्दर्शनीमुद्रां दर्शयेन्मंत्रसंयुतः ॥३०॥ मन्त्रेणैवाभिमन्त्र्याथ प्रत्येकं शतसंख्यया। चतुभिर्वैष्णवैः सूक्तः कलशैरभिषेचयेत् ॥३२॥ अतोऽन्यं कलशं गृह्य पवित्रोदकपूरितम् । (मां) मंगल (ल्य) द्रव्य संयुक्त तण्डुलोपरि निक्षिपेत् ॥३३ मन्त्ररत्नेन वै कुर्यादष्टोत्तरशतं द्विजः ।। अभिषेकं प्रकुर्वीत शंखेन विमलेन तु ॥३४॥ शुभ्रवस्त्रैश्च सम्वेष्टय मीतवादित्रशोभनैः ।। अधिवासं प्रकुर्वीत प्रोषिते निर्मले जले ॥३॥ अन्यासे(?) सैकते रम्ये दीपिका कारयेच्छुभाम् । प्राकारममलं कृत्वाचतुर्द्वारसमन्वितम् ॥३६॥ चतुर्भिस्तोरणैर्युक्त पताकाध्वजशोभितम् । तस्मिन्संवेशयेह सुवासितजले शुभे ॥३७॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy