________________
ऽध्यायः] विष्णुस्थापनविधिवर्णनम् २२३७
स्निग्धं रम्यं गृहीत्वाऽश्मा कारयेच्छभविग्रहम् । सर्वावयवसम्पन्नं सर्वलक्षणराजितम् ॥४॥ श्री भूमि सहितं देवं कारयेच्छुभविग्रहम् । एकादश्यां शुक्लपक्षे द्वादश्यां श्रवणेऽपिवा ॥५॥ रोहिण्यां मंदवारे वा तथैव च दिने शुभे। कार्तिके मार्गशीर्षे वा नवमे(माघे) वा चोत्तरायणे ॥६॥ शुभेऽन्हि शुभलनवा शुभग्रहनिरीक्षणे । प्रतिष्ठां कारयेद्विष्णोः यथोक्तविधिना द्विजः ॥७॥ ग्रहणे शून्यमासे च मूठेत(?)शमजीवयोः । दुर्लग्ने दुर्मुहूर्ते च भूकम्पोल्कानिपातने ॥८॥ अशोवाध (१) न कुर्वीत प्रतिष्ठां कर्म सत्तमाः । आदौ शुभेऽन्हि कर्त्तव्यं मत्कुरार्पण(अ)कर्मच(१)॥६॥ ऋत्विजो वरयेत्तत्र वैष्णवान् ब्राह्मणाञ्च्छुभान् । वेदवेदांगतत्वज्ञान् सर्वशास्त्रविशारदान् ॥१०॥ जितेन्द्रियान् शुभाचारान्सत्वस्थान्सर्वलक्षणान् । मन्त्रतत्त्वार्थ विदुषो ब्राह्मणान्वरयेच्छुभान् ॥११॥ तादृग्गुणसमायुक्तमाचार्य वरयेत्ततः। मन्त्रज्ञं मंत्रभक्तं च सर्वाचारं गुणान्वितम् ॥१२॥ श्रुतिस्मृति पुराणार्थ विदुषं दम्भवजितम् । अर्थपञ्चकतत्वज्ञमनिहोत्रयुतं शुचिम् ॥१३॥ द्वयं निष्ठं द्वयार्थमं प्रतिष्ठाकर्मनिष्ठितम् । महाभागवतं चैवमाचार्य वरयेत्सुधीः ॥१४।।