________________
ऽध्यायः] शुद्धिवर्णनम्
२२३३ द्रव्यमात्रन्तु सर्वत्र क्षालनाच्छुद्धमुच्यते । मणिप्रवालमुक्तादि चण्डालाद्यधृतम्भवेत् ॥५०७॥ पञ्चरात्रन्तु द्रव्येषु निक्षिप्य क्षालनाच्छुचिः। सर्वत्र स्पर्शमात्रेण क्षालनं गव्यवारिभिः ॥५०८॥ शुक्तिशंखौ तु चण्डालैस्वित्रकालवृतंत्यजेत् (१) । स्पर्शमात्रेणैतेषाम् तत्क्षणात्क्षालनंस्मृतम् ॥५०६॥ व्यावहासिक सूर्याणां सलेपानां विवर्जनम् (१) । क्षालनं प्रोक्तकुशूलानां तथैव च (१) ॥१०॥ भाजनानान्तु शैलानां पुराणानां विसर्जनम् । इतरेषां तु सर्वत्र तत्क्षणात्क्षालनस्मृतम् ॥५११॥ कांस्यताम्रादिलोहानां भाजनानां कथम्भवेत् । चण्डालैभुक्तमात्रे तु परित्यागो विधीयते ॥५१२॥ स्पर्शमात्रेषु चण्डालैः सत्परार्च (तत्क्षणाच्च) भुविक्षिपेत् । दाहयित्वा ततो वन्ही प्रोक्षयित्वा विशोधयेत् ॥५१३॥ स्पर्शमात्रेषु खननं ख्यया (१)। शोधयित्वा जलैः क्ष्याल्यैः गोपालैघर्षयेत्ततः(१) ॥१४॥ (१)रजकाक्त श्वश्रुनकेरयमेव विधिस्मृतः । क्षत्रविद् शूद्रजातीनामुच्छिष्टस्पर्शनेसति ॥५१५।। वि (त्रि ) मासं तु विनिक्षिप्य पुनराकारमाचरेत् । स्पर्शमात्रे तु शुद्ध द्याद्वारिप्रक्षालनस्मृतम् (१) ॥१६॥ चिरकालोपभुक्तानां कांस्यानां त्याजयेद्वहिः । कांस्यानामायसानां च तत्क्षणक्षालनाच्छुचिः ॥१७॥