________________
२२२८ ___वशिष्ठस्मृतिः
[ षष्ठोपितुर्दशाहमध्ये तु मातुः स्यात्प्रसवोयदि । पिण्डोदकक्रियां कुर्याच्छ्राद्धं वाचं विवर्जयेत् ॥४५०॥ पित्रोदशाहमध्ये तु भार्यायाः प्रसवो यदि । इतरेण च पुत्रेण कर्तव्याः स्वोदकक्रियाः ॥४५१॥ जननस्य च मध्ये तु जननं तु पुनर्भवेत् । पूर्वस्य नाम कर्मादि कर्त्तव्यन्तुद्विजन्मनाम् ।।४५२॥ गर्भश्रावे मासतुल्यानि सा शुद्धिस्तत्रकारणम् । श्रावे मातु स्त्रिरात्रं स्यात्सपिण्डाशौचनंस्मृतम् ।।४५३॥ याते (?) यानुर्यथामासं पित्रादिनांदिनत्रयम् । आचतुर्थाद्भवेच्छावः यातः पञ्चमषष्ठयोः ॥४५४॥ ऊध्वं दशम एवं स्यात्सर्वेषां सूतकम्भवेत् । योषिते कालशेषः स्यात्सर्वेषां तु व्यहंभवेत् ॥४५॥ यावग्रामस्यमध्ये तु शवस्तिष्ठत्यसंस्कृतः । ग्रामस्यतावदाशौचं जनने न तु दुष्यति ॥४५६॥ असपिण्डं द्विजं प्रेतं विप्रोनिवृत्य बन्धुवत् । विशुद्धयति त्रिरात्रेण तप्तकृच्छेण वा तथा ।।४५७।। विशिष्ट ज्ञान सम्पन्न दहित्वा सौहृदंविना। दहित्वा न(च) लभेद्विप्रो महद्यज्ञ फलाधिकम् ।।४५८॥ राजानं वा तथा वैश्यं शूद्र वा ब्राह्मणाधमः । तत्रा (१) शौचकालेन तप्तकृच्छण शुद्धथति ॥४५॥ राजकर्मणि राज्ञा च ऋत्विजां यज्ञकर्मणि । दीक्षितानां तापसांच यतीनां ब्रह्मचारिणाम् ॥४६०।।