________________
२२२६
[षष्ठो
वशिष्ठस्मृतिः तेन तुष्टो भवेद्दवो हरिनारायणः सदा । इष्ट्वा च वैष्णवं यज्ञं कुलमेकोत्तरं शतम् । उद्ध,त्य परमंस्थानं प्रयात्येव न संशयः ॥४२६॥
वशिष्ठ उवाच । अशौचानां विधिम्वक्ष्ये सर्वेषां मुनिसत्तम ? | त्रिरात्रं दशरात्रं च शावमाशौचमुच्यते ॥४३०॥ दशाहे समतिक्रान्ते त्रिरात्रंशावसूतकम् । तथैवानुपनीतेषुप्रेतेष्टाशौचमुच्यते ॥४३१॥ असंस्कृतासु (१) कन्यायासुह्यहमाशौचमुच्यते । ऊनद्विवार्षिकप्रेतं भूमौ च (?) निखनतुदुदत्र ॥४३॥ अत ऊर्ध्वन्तु संस्कारो वन्हिना लौकिकेन वै । तूष्णीमेव च संस्कारं तूष्णीं दद्यात्तिलोदकान् ।।४३३॥ केशवादीन्समुद्दिश्य ब्राह्मणान्भोजयेत्तदा । एकोद्दिष्टविधानेन श्राद्धं तद्धि विसर्जयेत् ।।४३४॥ एतत्तुल्यं तु सर्वेषामतिक्रान्तं तथैव च । अतिक्रान्तं समस्तं च त्रिरात्रेण समापयेत् ।।४३५॥ अतिक्रान्तं तु कर्तव्यो मातापित्रोविजन्मनाम् । उदकं पिण्डदानं च दशाहं सूतकम्भवेत् ॥४३६॥ अलाभे तस्य देहे तु तदास्थीन्येव दाहयेत् । अस्थ्यभावे तु संस्कुर्यात्पालाशसमिधैस्तनुम् ॥४३७॥ दाहयित्वा विधानेन पूर्ववत्सर्वमाचरेत् । दुहितुश्च श्वसुश्चैव स्वगृहे मरणं यदि ॥४३८॥