________________
ऽध्यायः] श्राद्धप्रकरणवर्णनम् २२२५
तस्मादिष्टिं विधानेन कृत्वावै वैष्णवोद्विजः । अवैष्णवानां कुर्वीत सर्वमप्योर्ध्वदैहिकम् ॥४१८॥ एकस्मिन्दिवसे यत्र कर्तुमिष्टिं न शक्यते । द्वाभ्यां तु चतुर्भिर्वा दिवसैश्च समापयेत् ।।४१६॥ तावच्च संग्रहेदग्निं यावदिष्टिः समाप्यते । एकादश्यां द्वादश्यां वा वैष्णवः तथैव च ॥४२०॥ अमायां मन्दवारे वा एकादश्यां शुभेदिने । यस्मिन्क स्मिन्प्रकुर्वीत वैष्णवीमिष्टिमुत्तमाम् ॥४२१॥ यावत्समाप्यतेयज्ञस्तावद्वदीक्षितो भवेत् । अधःशायी ब्रह्मचारी तथैव नियताशनः ।।४२२॥ सर्वत्रारम्भदिवसे उपवासो विधीयते । अलभ्यं यत्र यद्धव्यं तत्राज्यं जुहुयाद्बुधः ॥४२३॥ एवमिष्टिम्कुर्वीत वैष्णवीं वैष्णवोत्तमः । क्रियते वैष्णवीष्टिस्तु यस्मिन्देशे द्विजोत्तमः ।।४२४॥ स देशो वैष्णवः प्रोक्तः सर्वबन्धविमोचितः। वैष्णवैः क्रियते यस्मिन्वैष्णवीष्टिर्द्विजोत्तमैः ॥४२॥ तत्कुलं वैष्णवैः तस्य पावयति (?) नात्र संशयः । तस्मात्तु वैष्णवीमिष्टिं कुर्याद्व वैष्णवोत्तमः ॥४२६॥ कुलस्य पावनार्थाय (थंच) देशस्याप्यभिवृद्धये । यद्देशे इज्यते सम्यग्वैष्णवी पापनाशिनी ॥४२७॥ दुर्भिक्षं पीड़ा नास्त्यत्र नास्ति रोगंद्विजं भयम् । यद्देशे इज्यते सम्यक् स्तूयते वैष्णवी शुभा ॥४२८॥