SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ २२२४ वशिष्ठस्मृतिः [षष्ठो तिलैश्च व्रीहिभिः शुद्धः समिद्भिः पिप्पलोद्भवैः। तथैवाज्येन चरुणा जुहुयात्कमलैरपि ॥४०७॥ प्रत्येकमष्टसाहस्र होतव्यं तु द्वयेन वै। पश्चाद्वष्णव सूक्त तु होतव्यं पायसेन तु ॥४०८।। आज्येनैवतुहोतव्यं (तथाहित) द्वयेनवै । पश्चात्तुवैष्णवःपश्चादष्टोत्तरशतत्रम् ॥४०६॥ वैष्णव्याचैव गायत्र्या तथा मन्त्रद्वयेन च । नामभिः केशवाद्यश्च तथा संकर्षणादिभिः ॥४१०॥ ततः स्विष्टकृतादीनि होमशेषं समाचरेत् । सुपुष्पाणि ततोदद्यादेवाय सुरभीणि वै ॥४११॥ प्रत्यूचं वैष्णवैः सूक्तर्नामभिः केशवादिभिः। ततो विप्रान्समाहूय गन्धमाल्यादि भूषणैः ॥४१२॥ पूजयेत्पूर्वतया (वद्देव) केशवाद्यश्चनामभिः । भोजयित्वा ततो विप्रान्दक्षिणाभिः प्रतोषयेत् ।।४१३।। एवमिष्टिम्प्रकुर्वीत नैष्णवींवैष्णवोत्तमः। पितुः पूर्वोक्तविधिना संस्कारं सम्यगाचरेत् ॥४१४॥ वैष्णवेष्टिम्विधानेन कृत्वा वै द्विजसत्तमः । कुलमेकोत्तरशतम्पुनात्येव न संशयः ॥४१५॥ अकृत्वा वैष्णवीमिष्टिं पैतृमेधिककर्मणा । अवैष्णवान्यः संस्कुर्यात्सनरो रौरवम्ब्रजेत् ॥४१६॥ अवैष्णवान् पितृन्पश्चात्कुर्यात्संस्कारकर्मणि । अकृत्वा वैष्णवीमिष्टिं रौरवं नरकं ब्रजेत् ।।४१७।।
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy