________________
श्राद्धप्रकरणवर्णनम्
प्रत्यब्दं वत्सरादृध्वं मातापित्रोमृतेऽहनि । पितृयज्ञविधानेन कुर्याच्छ्राद्ध मतन्द्रितः ॥ ३७५ ॥ प्रत्यब्दं पार्वणं कुर्यान्मातापित्रोमृतेऽहनि । अन्यथा कुरुते यस्तु ब्रह्महत्यां सविन्दति ||३७६ || अकृत्वपार्वण श्राद्ध मातापित्रोर्मृतेऽहनि । स चण्डालो भवेत्सद्यो रौखं नरकं व्रजेत् ||३७७॥ तस्मात्पित्र्यादिके पुत्रः श्राद्धं कुर्वीत पार्वणम् । अमायान्तु विशेषेण चौलोपनयनादिषु || ३७८|| त्रयोदशेऽन्हि सम्प्राप्त े चलि (चौलं) कुर्यात्तु वैष्णवः । स्नात्वा नद्यां तटाके वा विशिष्ट र्ब्राह्मणैः सह ॥ ३७६ ॥ जपित्वा वैष्णवान्सूक्तानस्नात्वा सन्तर्पयेत्ततः । नामभिः केशवाद्यश्च मन्त्रैः सन्तर्पयेद्धरिम् ॥३८०|| तर्पयेन्नामभिः स्वैःस्वै नित्यमुक्तांश्चवैष्णवान् । ततः स्वमालयं गत्वा विधिवत्पूजयेद्धरिम् ॥ ३८१ ॥ देवस्थ पुरतो वन्हि प्रतिष्ठाप्य यथोक्तवत् । इध्माधानादिकं कृत्वा पश्चाद्धोमं समाचरेत् ||३८२||
ऽध्यायः ]
२२२१
पौरुषेण तु सूक्तेन पायसं मधुसंयुतम् । आज्यं च जुहुयात्सम्यक्प्रत्युचम्प्रणवान्वितम् ॥३८३|| तथैव मन्त्ररब्रेन जुहुयाच्छतसंख्यया ।
:
अन्यैश्च वैष्णवैर्मन्त्रैः शतया च जुहुयात्ततः ॥ ३८४॥ नामभिः केशवाद्यश्च जुहुयात्सुसमाहितः । स्वैः स्वैश्च नामभिर्हुत्वा नित्यमुक्तांस्तथैवच ।। ३८५||