SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] वैष्णवानांदाहसंस्कारवर्णनम् २२१७ आज्यसस्कारणं (१) कृत्वा तूष्णी मिध्म निधाय च । द्याविनावीतिना तत्र कार्य सर्वमशेषतः ॥३३॥ परिस्तरणपर्युक्षं सवं तत्रापसव्यवत् । तूष्णीमेवात्र जुहुयादाघारावाज्य (१) भागकौ ॥३३२॥ चतुराज्याहुतीस्तत्र होतव्यास्तु वेण वै । अग्निः कामोऽथ लोकश्च देवताः समुदीरिताः ॥३३३॥ एतानुद्दिश्यजुहुयादाज्यं तत्र समाहितः । तदभावेतिवचरुणा (१) अन्यायाज्ञिकैः शुभैः ॥३३४॥ हुत्वा मन्त्रण जुहुयाहशवारं समाहितः । हुत्वाथासौस्विष्टकृतं योऽग्नि (१) मितैवैत्यूचा ॥३३॥ प्रायश्चित्ताहुती हुत्वा होमशेषं समापयेत् । दह्यमानं ततः प्रेतं कुशैश्च जुहुयात्ततः ॥३३६॥ प्रत्यूचं प्रणवाद्यन्तं जुहुया पृथक् पृथक् । एवं प्रदहनं कृत्वा तमग्निं शमयेज्जलैः ।।३३७।। शमीपर्णैः तिलै स्तोयैः शान्तिकेतिचं जपेत् । अस्थीनि संचयित्वाथ शुभे तोये विनिक्षिपेत् ॥३३८॥ तीर्थे नद्यां हृदे वापि निक्षिप्य स्नानमाचरेत् । ततस्तिलोदकंदत्त्वा यावाणे (?) द्यपसव्यवत् ॥३३॥ उच्चार्य नामगोत्रे तु पित्रे दद्याजलाञ्जलिम् । पाचयित्वा चरुं तत्र दद्यापिण्डं कुशोत्तरे ॥३४०॥ निक्षिप्य तज्जले स्नात्वा स्वगृहं प्रविशेत्ततः । श्राद्धमस्मैप्रकर्त्तव्यमेकोद्दिष्ट विधानतः ॥३४॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy