________________
२२१६ वशिष्ठस्मृतिः
[ षष्ठोपितरोपासनं कृत्वा शिविका कारयेच्छ भाम् । प्रेतस्योद्वहनार्थन्तु वाहकान् वरयेच्छुभान् ॥३२०।। वाहकेषुनलब्धेषु कृष्णानडुहयोजयेत् । निवेश्य गोरथे प्रेतं (१) दाहदेशमनु जपेत् ।।३२१॥ हर्यर्पित हरिद्रादि गन्धमाल्यविभूषणैः। अलङ्कृत्य यथाप्रत दाहदेशं निवेदयेत् ॥३२२॥ गृहीत्वोपासनं तत्र विशिष्ट ाणैः सह । प्रेतमादायगच्छे युः जपेद्व वेदसंहिताम् ॥३२३॥ हरिद्रां विकिरन्मार्गे गीतवादित्रसंयुतः। दाहदेशं व्रजेत्सम्यगवर्जयेद्रोदनं तथा ।।३२४।। प्रतस्य दहनार्थन्तु खनेत्कुण्डं सुशोभनम् । सगोमयेनोदकेन सम्प्रोक्ष्य च विशोधयेत् ॥३२॥ शमीपर्ण तिलैः मिश्रितोयैः (१) सजियेत्ततः । काष्ठश्च याज्ञिकैः शुद्धः स्थितिं कुर्यात्प्रयत्नतः ॥३२६ कृष्णाजिनमथास्तीर्य तस्मिन्प्रतं निवेशयेत् । घृतानुलेपनं कुर्यात्प्रतदेहे तु सर्वतः ।।३२७।। तिलैर्दभैनिधायाथ तस्मिन्नग्निं विनिक्षिपेत् । क्रव्यादमिति ऋचं जप्त्वा दद्यादग्निं तथोरसि ॥३२८।। प्रज्ज्वाल्य वन्हि दर्भस्तु परिस्तीर्य तिलैः सह । पर्युक्षणं जलैः कृत्वा पात्रसादनमाचरेत् ॥३२६।। आसादनं च पात्राणां पितुर्दक्षिणतस्तथा। इममग्नत्यूचंजप्त्वा चमसा सादनं ततः ॥३३०॥