________________
२२१४ वशिष्ठस्मृतिः
[षष्ठोमण्डले चतु राति विन्यसेद्भाजनं शुभम् । पितृणां निमित्ते तु दद्याद्भाजनं तिलसंयुतम् ।।२६८।। पूर्वोक्तानि च पर्णानि स्वर्णानि रजतानिच । प्रक्षाल्य मण्डले दत्वा पात्रे प्रक्षालनं चरेत्॥२६॥ महामाहानामधेवं (१) कुर्यादावाहनादिकम् । पतीनांयतिनासाधं (१) विनाभ्युदय कर्मणि ॥३००।। उपस्तीर्य घृतम्पाने दद्याद् गव्यमतन्द्रितः । हरेनिवेदितं दद्यात्सर्वमानन्त्यमश्नुते ॥३०॥ यवासंगुड़मेधाज्यनाद्र के कदलीफलम् । महाशाकं कालशाकं दद्यात्कृशरं तथा ॥३०॥ परिस्तीर्य कुशैः पात्रं परिषिच्य जलेन तु । आपोशानक्रियापूर्व भोजयेत्तान् समाहितः ॥३०३।। अभावे पितृयज्ञे तु पिण्डांस्तान् विनिक्षिपेत् । दद्यादाचमनं तस्मात्स्वधाकारमुदाहरेत् ।।३०४॥ दत्वा तु दक्षिणां शक्त्यावाजेवाजेत्यूचं जपेत् । प्रदक्षिणानमस्कारैस्ततो विप्रान्विसर्जयेत् ॥३०॥ एवं (श्राद्ध) विधानेन माता पित्रोमृतेऽहनि । प्रतिसम्वत्सरं कुर्यात्पितृयज्ञादि पूर्ववत् ॥३०६॥ तथा नांदीमुखंश्राद्धं कुर्या पितृदैवतम् । एवं प्रदक्षिणावर्त-कुर्यादनोपवीतिना ||३०७।। (होम) पितृयरां(१)वर्जयिस्वा सर्व कर्म समाचरेत् । मातृश्राद्ध तुपूर्वस्यात् पितृणां तदनंतरं ॥३०॥