________________
२२१२
वशिष्ठस्मृतिः
उत्सवे
वासुदेवस्य स्पृष्टास्पृष्टिर्न विद्यते । उत्सवे वासुदेवस्य यः स्नाति स्पर्शशंकया ||२७७|| स्वर्गस्थाः पितरस्तस्य पतन्ति नरकेषु च । समाजमंत्रवीथीषु कृ ( ग ) त्वा वाऽऽचमनं चरेत् ॥ २७८|| तथोत्सवे हरिद्राद्य विकीर्णागीथी वैष्णवः । महाभागवतानो पुष्पैः स्नायादपांशुभिः ॥२७६॥ न स्नायाच्छन्नगात्रोऽपितथार्यक्ष जलैः शुभैः । नित्यनैमित्तिकेष्वेव विष्णोराराधनक्रमः ॥ पुरा यथोक्तविधिना या वै प्रोक्ता द्विजोत्तमाः ॥ २८०॥ श्रीवशिष्ठः
[ षष्ठो
अमायामपराह्न तु पितृयज्ञ समाचरेत् । स्नात्वा यथोक्तविधिना पूजयित्वा जनार्दनम् ||२८१||
स्थापयित्वा चरुवह्नौ स्थाल्यां ब्रीहिमयं शुभम् । वन्हेर्दक्षिणतः स्थाप्य चाभिघार्य श्रुवेण वै ॥ २८२॥ वहिद्यासाद्धार्य (?) परिस्तीर्यापसव्यवत् ।
इध्माधानं ततः कुर्यादाघारौ चक्षुषी तथा ||२८३ || वसोऽथ इतिसूक्तन मधुव्वात इतिऋचा । अभिधानं विधानेन जुहुयात्प्रत्यृचं चरुम् ||१८४॥ प्राचीनावीतिना हुत्वा शेषं कर्म समाचरेत् । अग्न दक्षिणतः पिण्डान्दत्त्वा च निर्वपेत् ||२८५|| गोमयेनोपलिप्याऽथ मण्डलं वर्त्तुलं शुभम् । तस्मिन्विकीय्यं सतिलान्कुशानास्तीर्य मण्डले ॥ २८६॥