SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ नैमित्तिककर्मवर्णनम् ग्रहणे रविसङ्कान्तौ शक्त्या देवं प्रपूजयेत् । तत्कालसंभवैः पुष्पैः धूपदीपैर्निवेदनैः ॥ २४४॥ तपोमासि सिते पक्ष द्वादश्यां च विशेषतः । वाराहरूपिणं देवं सम्यक् तत्र प्रपूजयेत् (१) ॥ २४५॥ अपूपैः मंठकादयैश्चभक्षभोज्यनिवेदनैः । भक्त्या सम्पूजयेद्दवं ततः सम्पूजयेत्पितृन् ॥ २४६॥ ततः (श्च तर्पणं कृप्वा पुनः ) सम्पूजयेद्धरिम् । पूजयेत्कुमुदैः शुभ्रः पुण्डरीकैस्तथोत्पलैः ||२४७|| कृसरं मुद्गसूपं च नैवेद्यं च निवेदयेत् । प्राजापत्यर्क्षसंयुक्तं कृच्छ्रा सा तु शिवाष्टमी ॥२४८|| सा जयन्तीति विख्याता त्रिषु लोकेषु विश्रुता । तस्यामुपोष्य विधिवच्छक्त्या सम्पूजयेद्धरिम् ॥ २४६ ॥ जयन्त्यामुपवासश्च महापातकनाशनः । स कार्यश्च यथाशक्त्या पूजनीयश्च केशवः || २५०॥ बालकृष्णं विधानेन भानुरुत्तुंगसंस्थितम् । पूजयेद् विविधैः पुष्पैर्गन्धधूपादिभिस्तथा ॥२५१|| नैवेद्य विविधैः श्लक्ष्णैः गुड़ाद्यः कृसरैरपि । रात्रौ जागरणं कुर्याद् गीतवादित्र निःस्वनैः ।। २५२॥ इतिहासपुराणानां पठनैः श्रवणैरपि । प्रभाते (विमले) स्नात्वा विशिष्ट वैष्णवैः सह || २५३|| पूर्ववत्पूजयेद्द वं ब्राह्मणां व भोजयेत् । स्वयं च पारणं कृत्वा विष्णुमेवं प्रपूजयेत् ॥२५४॥ Sध्यायः ] २२०६
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy