SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ २२०८ [ षष्ठो वशिष्ठस्मृतिः गन्धपुष्पादिभिर्देवं धूपदीपनिवेदनैः । फलैश्च भक्ष्यभोज्यैश्च गीतवादित्रनर्त्तनैः ॥ २३३॥ अर्चयेदच्युतं भक्त्या यथावित्तानु सारतः । एकादश्यामुपवसेत्पक्षयोरुभयोरपि ॥ २३४ || अर्चयेज्जगतामीशं पूजाजागरणादिभिः । प्रभाते विमले स्नात्वा द्वादश्यां पुरुषोत्तमम् ॥ २३५॥ अर्चयेन्मालतीपुष्पैः पयः स्नानं समर्पयेत् । ब्राह्मणान्भोजयेद् भक्त्या स्वयं कुर्वीत पारणम् ॥२३६॥ वैष्णवर्क्षे तु पूर्वाह्न पूजयेत्सर्वदा द्विजः । सेवन्तीकुसुमैर्दिव्यैर्धूपदीपैर्मनोहरैः ||२३७|| निवेदयेच्च दध्यन्न ं पानं च शर्करायुतम् । मध्यान्हे पौर्णमास्यां वा पुन्नागैश्चम्पकैरपि ॥२३८|| पूजयेदच्युतं भक्त्या शुद्धान्न ं विनिवेदयेत् । रात्रौ सम्पूजयेत्तस्यां मल्लिकाकुसुमैः शुभैः ॥२३६॥ निवेदयेद्रौप्यपात्रे पायसं शर्करान्वितम् । अमायान्तु विशेषेण मासि मासि प्रपूजयेत् ॥ २४०॥ पूजयेत्कुसुमैः कुन्दैः करवीरैः सपाटलैः । पिण्डयज्ञविधानेन अर्ध्यावाहनपूर्वकम् ||२४१|| भोजयेद्ब्राह्मणान् भक्त्या पितृनुद्दिश्य स्वशक्तितः । पितृरूपं हरिं तत्र प्रीणात्वितिवै (?) ब्रुवन् ॥२४२॥ कुर्याच्छ्राद्ध विधानेन विष्णोराज्ञामनुस्मरन् । प्रसादतीर्थे या पितृभ्यश्च विशेषतः || २४३||
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy