________________
२२०६ वशिष्ठस्मृतिः
[षष्ठोउद्धृत्यकामहस्तेन यत्तोयं पिबते द्विजः। सुरापानेन तत्तुल्यमेवमाह प्रजापतिः ॥२१२।। पिबेत्पात्रात्तरोद्विधो (?) नारिकेल फले रसम् । स सुरापी महापापी रौरवं नरकं व्रजेत् ॥२१३।। चलिते वासने (१) विप्रो विनाकरपादकः । दक्षिणास्यो हि यो भुङ्क्ते महायज्ञ फलं लभेत् ।।२१४।। एवं भुक्त्वा विधानेन पश्चात्संप्राशयेजलम् । अमृतापिधानमसीति मन्त्रणापो द्विजोत्तमः ॥२१॥ भुक्तोच्छिष्टं समादाय सवस्मात्किंचिदाहरेत् (?)। त(उ)च्छिष्टभागदायेभ्यः सोदकं निर्वपेद्भुवि ॥२१६॥ उत्थाय सम्यगाचामेत् भोजनान्तेति संस्थितः । मुद्गादिचूर्णमृद्भिर्वा जलैः संशोधयेत्करौ ॥२१७।। काष्ठेन जलगण्डूपैर्वको संशोधयेत्ततः । द्विराचम्य विधानेन सुखासीनः स्मरेद्धरिम् ।।२१८॥ इतिहासपुराणानि स्वाध्यायं च पठेत्ततः ।। अस्तंगते दिनकरे सन्ध्यां कुर्वीत पूर्ववत् ।।२१।। ततः सम्पूजयेद्देवं पूर्ववत्सुसमाहितः । अष्टाक्षरविधानेन पूजयेद्विजसत्तमः ॥२२०।। अकारेणोच्यते विष्णुः श्रीरुकारेण चोच्यते । मकारेणोच्यते जीवस्तयोर्दास उदाहृतः ।।२२१॥