________________
[षष्ठो
२२०४
वशिष्ठस्मृतिः तत्रागतेभ्यः सर्वेभ्यो दद्याद्भक्त्या(शक्त्या)नुसारतः । चौरो वा यदि चाण्डालोविप्रनः पितृघातकः ।।१६।। वैश्वदेवे तु सम्प्राप्तः सोऽतिथिः स्वर्गसंग्रहः । दूरादध्वान्नआतस्तु वैश्वदेवे समागतः ॥१६१।। अतिथिन्तं विजानीयानातिथिः पूर्वमागतः । अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्त्तते ॥१९२।। स तस्मै दुष्कृतं दत्वा पुण्यमादाय गच्छति । तस्मात्तत्रागतान्विप्रान्पूजयेदविचारयन् ॥१६३॥ अपृच्छद्गोत्रचरणेन स्वाध्यापकं कथञ्चन । तत्र सुस्थंहरि ज्ञात्वा पूजयेदविचारयन् ॥१६४॥ विशिष्टो वैष्णवोविप्रो गृहं प्रत्यागतोयदि । प्रत्युद्गम्य प्रणम्याशुः पूजयेत्तम्विधानतः ॥१६।। पादप्रक्षालनं कुर्याच्छुभे यावान्नरेद्विजः (१) । उपविश्यासने रम्ये मधुपर्केण पूजयेत् ॥१६६॥ भोजयेदन्नपान्नाद्यरतिथीन्श्रोत्रियोद्विजः।। आसीमंतुघ्रज्वेत् (?) नमस्कृत्वा विसर्जयेत् ॥१६७।। बन्धुभिर्बालवृद्धाद्यः स्वयं भुञ्जीत वाग्यतः । उपविश्याऽऽसने रम्ये प्राग्वा प्रत्यङ्मुखोऽपि वा ॥१६८।। मण्डले चतुरस्र च विन्यसेद्धाजनंशुभम् । स्वणं वा रजतं वापि विशुद्ध कांस्यमेव च ॥१६६।। चतुःषष्टिपलञ्चैव कांस्यं मुख्यं प्रमाणतः । तदर्धेनापि कर्त्तव्यं ततोहीनं विसर्जयेत् ।।२०० ।।