________________
२२०० वशिष्ठस्मृतिः
[ षष्ठोउपस्थानं जपं कृत्वा ब्रह्मयज्ञमनन्तरम् । ब्रह्माञ्जलिं कुशैः साधं प्राङ्मुखः सुसमाहितः ॥१४६।। सव्याहृतिकां सप्रणवां सावित्री च जपेद् बुधः। तरत्समंदीति सूक्त च तथावेदादिकम्पठेत् ॥१४७।। आध्यात्मिकी तथा विद्यां तद्विष्णोरिति वै अचम् । मन्त्रद्वयंच सावित्री चैशावी (१) च जपेद्विजः ॥१४८॥ ततः स्वगृहमागच्छे द्वाग्यतो नियतेन्द्रियः । पादप्रक्षालनं कृत्वा पश्चादाचमनं चरेत् ॥१४६।। उपविश्याऽऽसने शुद्ध पूजां पूर्ववदाचरेत् । पौरुषेण च सूक्तन तथा मंत्रद्वयेन च ॥१०॥ गन्धपुष्पादिभिः सत्यपूजां पूर्ववदाचरेत् । अनुष्टुभस्य सूक्तस्य त्रिष्टवत्तस्य (?) देवता ॥१५॥ पुरुषो यो जगद्बीजमृषिर्नारायणः स्मृतः । प्रथमं विन्यसेद्वामे द्वितीयं दक्षिणे करे ॥१५२।। तृतीयं वामपादे तु चतुर्थे दक्षिणे पदे । पञ्चमं वामजानौ तु षष्ठे वै दक्षिणे तथा ॥१५३॥ सप्तमं वामकुक्षौतु दक्षिणस्यां तथाष्टमम् । नवमं नाभिदेशे तु दशमं हृदि विन्यसेत् ॥१५४|| एकादशं कण्ठ देशे द्वादशं वामबाहुके । त्रयोदशं दक्षिणे तु आस्यमध्ये चतुर्दशम् ॥१५।। अक्ष्णोः पञ्चदशं न्यासे षोडशं मूर्ध्नि विन्यसेत् । एवन्न्यासविधिं कृत्वा पश्चात्पूजां समाचरेत् ॥१५६।।