________________
२१६६ वशिष्ठस्मृतिः
[षष्ठोएवं समनं कृत्वा पश्चाद्देवं समर्चयेत् । मन्त्ररत्नेन वै दद्यात्पाद्यार्थ्याचमनादिकम् ॥१०२।। स्नानार्थण (१) दयीदनु दद्यादुतकरं ततः । तस्मिन्निवेश्य देवेशं दन्तकाष्ठं समर्पयेत् ।।१०३।। गण्डूषाचमनंदद्यात्सुवासितजलैः शुभैः । आदेश व (?) ततो दञ्चाद्विमलचात (क) पत्रकम् ॥१०४।। सुवासितेन तैलेन कुर्यादभ्यञ्जनं ततः । उद्वर्त्तनं ततो दद्यात्कृत्वा सूर्यादिध(?) प्रकल्पितैः ॥१०॥ केशानांरंजनार्थाय दद्याद् गन्धं सुवासितम् । स्नापयेद्विधिवत्पश्चादुष्णं शीतजलैः शुभैः ।।१०।। हरिद्रया कुंकुमेन दद्यादुद्वर्त्तनं ततः । सुवासितेन तोयेन शीतेन स्नापयेत्ततः ।।१०।। स्नानशत्रष्टितोयेनमन्त्ररत्न मन्त्रवित् । अभिषेकं ततः कुर्यात्सूक्तैर्विष्णुप्रकाशकैः ॥१०८।। श्री विष्णु प्रकाशकान्यैव सूक्तान्यामभिषेचयेत् । देव्य (वस्य) स्नानकाले तु प्रकुर्यात्तूर्यघोषणम् ।।१०।। अभिषिच्य ततः कुर्याद् धूपैर्नीराजनैः शुभैः । श्रतै पश्चादोवमदंदत्वावस्त्रैः सम्वेष्टयेच्छुभैः ॥११०।। पश्चादाचमनं दत्त्वा भूषणभूषयेत्ततः । आदर्श दर्शयित्वा च पूजापीठे निवेशयेत् ॥१११।। नीला धरण्यौ सपूज्य याश्च यौम्न (?) दनंतरम् । अनन्तवैनतेयौ च सेनेशं च प्रपूजयेत् ।।११२।।