________________
ऽध्यायः] भगवत्समाराधनविधिवर्णनम् २१६५
उद्धरेदर्ग्यपात्रतु गृह्णीयात्कलशे जले । तस्मिन् सौदामिनी मुद्रां दर्शयित्वाभिमंत्रयेत् ॥११॥ मन्त्रणैवाभिमन्त्र्याऽथ निक्षिपेत्कलशोदके । पाद्यार्थ्याचमनस्नानं पात्रषुवा (हि) तथैवच ॥१२॥ पात्र तु पूरयेत्पश्चादुद्धरेदुद्धृतं जलम् । द्रव्याणि विन्यसेत्तत्र वक्ष्यमाणानि वै बुधः ॥१३॥ पत्रकं चन्दनंकुष्ठं पाद्यपात्रे विनिक्षिपेत् । कुशां दूर्वाक्षतान् पुष्पंकुंकुम तिलसर्पिषम् ॥६४|| तुलसीम जरीश्चव न्यसेदय॑जलेयुते । तथैवाचमने दद्यात्कर्पूरागरु(च)दनम् ॥६॥ धात्री तु तुलसी पत्रं गुग्गुलं त्रिफलन्तथा। एला लवंगं कस्तूरी स्नानपाचे विनिक्षिपेत् ॥६६॥ शर्करादधिमध्वाज्यमधुपर्कैः समर्पयेत् । ततः सर्वाणि पात्राणि मन्त्रोणैवाभि मंत्रयेत् ॥१७॥ द्रव्याणामप्यलाभे तु विन्यसेत्तु लसीदलम् । गुरु समर्चयेत्पूर्वम्पश्चात्पीठं समर्चयेत् ॥८॥ शक्तिराधारशक्तिश्च चिच्छक्तिश्चेतिशक्तयः । कूर्मादयश्चपीठाधः पूजयाप (नीया) यथाक्रमम् ॥१६॥ धर्मादीनर्चयेत् सर्वान् पादगात्रभयात्मकान् । चंडादिद्वारपालांश्च कुमुदादीन्समर्चयेत् ॥१००। गृहीतचामरादेव्यो विमलाद्याश्च शक्तयः । पूजनीयाः प्रयत्नेन गंधपुष्पाक्षतादिभिः ॥१०॥ .