SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ २१६४ वशिष्ठस्मृतिः वामांके संस्थितां देवीं स्मरेत्काञ्चनसन्निभाम् । सर्वाभरणभूषिताम् ||८०|| [ षष्ठो सर्वलक्षणसम्पन्नां दुकूलवस्त्रसंवीतां नीलकुंचितशीर्षजाम् । सर्वावयवशोभिताम् ॥८१॥ रक्तकुण्डलसंयुक्तां दिव्यचन्दनलिप्सांङ्गां दिव्यायुधविराजिताम् । हस्तैश्चतुर्भिः संयुक्तां केयूरांगदभूषिताम् ||८२|| गृहीत पद्म युगलमृद्वा (हस्ता )भ्यां (सु) विराजिताम् । गृहीतमातुलिङ्गां ताम् जाम्बूनदकरान्तथा ॥ ८३ ॥ एवं देवीं स्मरेन्नित्यं वामांके सततं हरेः । यथात्मनि तथा देवे न्यासकर्म समाचरेत् ॥८४॥ मुद्राम्प्रदर्शयेत्पश्चाच्छङ्खचक्रगदादिभिः । वासुदेवस्य दक्षिणे पार्श्वे विन्यसेत्कलशं शुभम् ॥८५॥ सुगन्धद्रव्यसंयुक्तं विचित्रोदकपूरितम् । तथा च वामपार्श्वेषु पूजाद्रव्याणि विन्यसेत् ||८६|| पात्राणां शोधनं कुर्यात्पुरतो ह्यपसव्ययोः । पाद्यार्थ्याचमनं स्नानं मधुपर्कार्थमेव च ॥८७ मध्ये तु मधुपर्कार्थे सद्योप्राणी (?) तथैव च । एलालवंगकंकोलं कुष्ट जातीफलं तथा ॥८८॥ उशीरं तुलसीपत्रं केशरं चंदनं तथा । पुष्पाणि वि (सु) सुगन्धीनि विन्यसेत्कल शोदके ॥८६॥ सौरभेयीं तथा मुद्रां दर्शयेत्कलशे शुभे । कलशस्यसमन्तात्तु नादार्यं (?) मुपदर्शयेत् ||१०|| ु
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy