________________
२१६४
वशिष्ठस्मृतिः
वामांके संस्थितां देवीं स्मरेत्काञ्चनसन्निभाम् ।
सर्वाभरणभूषिताम् ||८०||
[ षष्ठो
सर्वलक्षणसम्पन्नां
दुकूलवस्त्रसंवीतां नीलकुंचितशीर्षजाम् ।
सर्वावयवशोभिताम् ॥८१॥
रक्तकुण्डलसंयुक्तां दिव्यचन्दनलिप्सांङ्गां दिव्यायुधविराजिताम् । हस्तैश्चतुर्भिः संयुक्तां केयूरांगदभूषिताम् ||८२|| गृहीत पद्म युगलमृद्वा (हस्ता )भ्यां (सु) विराजिताम् । गृहीतमातुलिङ्गां ताम् जाम्बूनदकरान्तथा ॥ ८३ ॥ एवं देवीं स्मरेन्नित्यं वामांके सततं हरेः । यथात्मनि तथा देवे न्यासकर्म समाचरेत् ॥८४॥ मुद्राम्प्रदर्शयेत्पश्चाच्छङ्खचक्रगदादिभिः । वासुदेवस्य दक्षिणे पार्श्वे विन्यसेत्कलशं शुभम् ॥८५॥ सुगन्धद्रव्यसंयुक्तं विचित्रोदकपूरितम् । तथा च वामपार्श्वेषु पूजाद्रव्याणि विन्यसेत् ||८६|| पात्राणां शोधनं कुर्यात्पुरतो ह्यपसव्ययोः । पाद्यार्थ्याचमनं स्नानं मधुपर्कार्थमेव च ॥८७ मध्ये तु मधुपर्कार्थे सद्योप्राणी (?) तथैव च । एलालवंगकंकोलं कुष्ट जातीफलं तथा ॥८८॥ उशीरं तुलसीपत्रं केशरं चंदनं तथा । पुष्पाणि वि (सु) सुगन्धीनि विन्यसेत्कल शोदके ॥८६॥ सौरभेयीं तथा मुद्रां दर्शयेत्कलशे शुभे । कलशस्यसमन्तात्तु नादार्यं (?) मुपदर्शयेत् ||१०||
ु