________________
ऽध्यायः] भगवत्समाराधनविधिवर्णनम् २१६३
छन्दस्तु देवी गायत्री प्रणवोबीजमुच्यते । शक्तिः श्रीश्चात्र विज्ञ या मंत्ररत्नस्य सर्वदा ॥६।। हृदयादि षडङ्गषुबद्धादानितु (?) विन्यसेत् । करन्यासं ततः कृत्वाह्यङ्गुलीषुतथा क्रमम् ॥७०।। पञ्चविंशात्मके देहे मन्त्रवर्णानि विन्यसेत् । वक ( एवं ) न्यासं ततः कुर्याद् हृदयादिषु मंत्रवित् ।।७१।। एवं न्यासविधिं कृत्वा पश्चाद् ध्यानं समाचरेत् । अनन्ते भोगपर्यत फणारत्य विचित्रिते ||७२।। तत्रासीनं श्रिया साद्धं नीलदेहसमन्वितम् । सूर्यकोटिप्रतीकाशं पीताम्बरधरं हरिम् ॥७३।। सर्वलक्षणसम्पन्नं सर्वाभरणभूषितम् । पद्मासनस्थितं देवं कामलावण्यशोभितम् ।।७४।। प्रफुल्लपद्मपत्राभं लोचनद्वयशोभितम् । श्लक्ष्णवासं लसद्वक्त्रं (ह्य) सुभ्र युगलताञ्चितम् ।।७।। उद्यदिनकरा(रा)मायाकुण्डलास्यविराजितम् । सम्पूर्णचन्द्र प्रतिमं सितवक्त्रं शुभाननम् ॥७६।। मुक्तादाम लसज्ज्योत्स्नाक्ष्मा(दन्ता)वलिविराजितम् । सिंहस्कन्धोमुरुपांसं कृत्तायतचतुर्भुजम् ॥७७|| केयूरांगदहारादिभूषणैरुपशोभितम् । गृहीतशङ्खचक्राभ्यामुद्वाहुभ्यां विराजितम् ॥७॥ वरदाभययुक्ताभ्यामितराभ्यां विराजितम् । रत्ननूपुरशोभाढ्यं पद्मयुग्मविराजितम् ॥७६।।