________________
भगवत् समाराधन्नविधिवर्णनम्
प्राशयित्वा त्रिराचम्य देवादींस्तर्पयेद्दि वजः । उत्तीर्य पीत्येद्वयं (?) पुनराचमनं चरेत् ||४७|| सोत्तरीयं च कौपीनं वस्त्रयुग्मं च धारयेत् । आचम्य धारयेत्युरू (?) (दूर्ध्वपुण्ड्र विधानतः) मृदमुत्रे ॥४८॥ नासिका मूलमारभ्य केशान्तं सुप्रकल्पयेत् ।
विस्तारश्चतुरङ्गुलमायतः ॥४६॥
त्र्यङ्गुलं तस्य सान्तरालं द्विजः कुर्यात्पार्श्वोवंगुलमात्रकम् । धारयेदूर्ध्वपुंड्राणि ललाटे चोक्त पूर्वकम् ॥५०॥ ऊर्ध्वपुण्ड्रस्य मध्ये तु लक्ष्मी स्थानं प्रकल्पयेत् । हारिद्रयेण च चूर्णेन कुंकुमेन सुगन्धिना ॥५१॥ धृतोर्ध्वपुण्ड्रदेहस्तुसपवित्रकरस्तथा ।
Sध्यायः ]
२१६१
सोपवीतो बद्धशिखः सन्ध्यां पूर्वोक्तवञ्चरेत् ॥५२॥ स्नानकर्मण्यशक्तस्तुधौतं धृत्वाऽथ वाससी । मन्त्रैः सम्मार्जयेदद्भिः शुचिरब्दैवतै द्विजः ॥ ५३ ॥ ध्यायन्नारायणं देवं मन्त्ररत्नन मार्जयेत् । अभिमंत्र्य जलं प्राश्य पश्चादाचमनं चरेत् ॥५४॥ सन्ध्यामुपास्य विधिवज्जापाजप्यं ( जापंजप्त्वा ) हि पूर्ववत् । तर्पयेन्मन्त्ररत्नन शक्त्या देवं जनार्दनम् ॥५५॥ तदीयांस्तर्पये निष्पाद्य (?) स्नान वस्त्रं पुनराचमनं चरेत् । पुष्पाण्यादाय पूजार्थे त्र्य ( आ ) रामेवाप्यरण्यके ॥५६॥ उपादेयानि पुष्पाणि गृह्णीयाद्वष्णवोद्विजः । शुचौ देशे शुचिर्भूत्वा कुर्यात्पुष्पस्य संग्रहम् ||५७||