________________
[षष्ठो
२१८८
वशिष्ठस्मृतिः उत्तरत्र तदर्द्धश्च शौचे कर्मणि योजयेत् । कृत्वा शौचं विधानेन सम्यगाचम्य पूर्ववत् ॥१७॥ दन्तानां शोधनं कुर्यात्काष्ठः कुर्याद यथोक्तवत् । कनिष्ठिकाग्रवस्थूलं द्वादशांगुलमायतम् ॥१८।। कण्टकक्षीरवृक्षोत्थं पूर्वाग्रकृतपूर्वकम् । प्राङ्मुखोदङ्मुखोवापि उपविश्य च वाग्यतः ॥१६।। दन्तानां धावनं कुर्याज्जिह्वालेखनमेव च । अंकोलः खदिरश्चूतस्तथैवोदुम्बरो वटः ॥२०॥ अभ्रातकं मधूकञ्च प्लक्ष जम्बूत (क) वैणवम् । अपामार्ग तितिणीञ्च कुटजं कुरवन्तथा ॥२१॥ कदम्बञ्च शिरीषञ्च धात्रीरुचकमेव च । जम्बीरनिम्बवृक्षोत्थंदन्तकाष्ठानि योजयेत् ॥२२॥ (निषिद्ध) शिवद्ध रशम्यश्च (१) शिंशुपौ। पीलुः पलाशनिर्मुण्डी कपित्थं बिल्वकन्तथा ।।२२।। खरं नारिकेलञ्चकेतकी युगसम्भवम् । कदलीतालकार्पासबदरीतापसन्तथा ॥२३।। अन्यानि च निषिद्धानि वर्जयेहन्तधावनम । तुषागरकपालाश्मतृणभस्मायसादिकं (?) ।।२४।। सिकतावस्त्रवर्मास्थि वर्जयेद्दन्तधावनम । द्वादश्यां प्रतिपत्षष्ठयो नवम्यां शशिसंक्षये ॥२॥