SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ २१७८ वशिष्ठस्मृतिः [पंचमो. सकृत्संस्कृतसंस्कार्याः सीमंतादिक्रियाततः । पूर्णगर्ने प्रसूयेत तत्सर्व संस्कृतम्भवेत् ॥१३१॥ इति श्री वशिष्ठस्मृतौ गर्भाधानादि पुंसवनादि सीमन्तो न्नयनकथनं नाम चतुर्थोऽध्यायः ॥४॥ अथ पञ्चमोऽध्यायः स्त्रीधर्मवर्णनम् श्री वशिष्ठ उवाच अधुना सम्प्रवक्ष्यामि स्त्रीणां धर्म सनातनम् । शीलमेव तु नारीणां प्रधानं धर्म उच्यते ॥१॥ शीलभङ्गने नारीणां यमलोकं सुदारुणम् । पतिर्हिदैवतं नार्याः पतिर्बन्धुःपतिर्गतिः ॥२॥ तस्याज्ञां लवयित्वैव नारी नरकमाप्नुयात् । नास्ति स्त्रीणां पृथग्ज्ञानं न व्रतं नाप्युपोषणम् ॥३॥ पतिशुश्रूषणे तासां स्वर्गमेव विधीयते ।। भोजनं शयनं निद्रा भर्तुः पश्चाद्विधीयते ॥४॥ उत्थाने (नं) तु पुनस्तस्याः पूर्वमेव विधीयते । पतिं था नाभिचरति मनोवाकायसंयता ॥५॥ सा भर्तृलोकानाप्नोति सद्भिः साध्वीति चोच्यते। दक्षा हृष्टा सुवेशा च सदा परपराङमुखी ॥६॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy