________________
२१६८
टातः
वशिष्ठस्मृतिः
[चतुर्थोंसुशीतलं पानकं च कर्पूरेण सुवासितम् । सपूगनागपत्रा (घा) दि ताम्बूलञ्चसमर्पयेत् ॥२॥ पश्चान्नीराजनं कृत्वा सर्व वस्तु निवेदयेत् । पश्चात्पुष्पाञ्जलिं दद्यान्नमस्कृत्य च शाङ्गिणम् ॥२६॥ श्रीकेशव जगन्नाथ उभयोः पादपाययोः। अनयासह सर्वत्र परिचर्या सदाऽस्तु मे ॥२७॥ एवं सम्प्रार्थ्य देवेशं पश्चात्कर्म सनाचरेत् । देवस्य पुरतोवन्हि प्रतिष्ठाप्याथ पूर्ववत् ॥२८॥ आज्यं संस्कारपर्यन्तं कृत्वा सम्यग्विधानतः। पूजितोमधुपर्केण कन्यायाश्च मदापकात् (१) ॥२६॥ नवन्निकांतर्हितां च कन्यां स मिंगलकृताम्(१)। ईक्षयेत्सुमुहूर्ते तु मन्त्रेण घोरचक्षुषा ॥३०॥ साद्रा () क्षताश्चदूर्वाश्च कन्यां (च) समलङ्कृताम् । लाजाक्षतानिसर्वाणि पुष्पाणि सुरभीणि च ॥३१॥ तौर्यस्त्वरयामूर्ध्नि विकीर्येतां मनस्विनाम् (१)। कन्यामुदकपूर्वी च दर्य (दद्यात्) कन्याप्रदायकः ॥३२॥ वरं लक्षणसंयुक्त विष्णुरूपमनुस्मरन् । पितादद्यात्सुकन्यां (च) तदभावे पितामहः ॥३३॥ तदभावे. पितृव्यः स्यात्तदभावेऽपिसोदरः । तदभावे तु जननी तदभावेऽपिगोत्रजः ॥३४॥ तदभावे तु बंधुःस्यात्तदभावे नृपः (उच्यते) स्मृतः । दातृणामप्यलाभे तु कन्याकुर्यात्स्वयम्बरम् ॥३॥