________________
ऽध्यायः] ब्रह्मचयवर्णनम्
२१६३ शर्कराज्येनसंयुक्तां. तिलेष्टथा जुहुयात्ततः । तर्पयित्वा पितृन्देवान् कुर्य्यादुत्सर्जनं ततः ॥१७३।। वर्षे वर्षे प्रकर्त्तव्यं वेदाध्यापनपारगैः। अध्यापनमुपाकर्म तथैवोत्सर्जनादिकम् ॥१७४।। समस्तसंहितायान्तु महानाम्नीव्रतं चरेत् । आरण्यके. वेदभागमवधार्यवनान्तरे ॥१७॥ उदगयनं पूर्वपक्षे स्थालीपाली (कादिभिः) सितैर्युतम् । आचार्यों जुहुयात्तत्र अग्न्याधानादिपूर्वकम् ।।१७६।। मनोहरे शुचौ देशे तरुच्छायासु शीतले। अर्चयेजगतामीशं पुष्परारण्यसम्भवैः ॥१७७॥ अन्यानि फलमूलानि भक्ष्याण्येव निवेदयेत् । नमस्कृत्वा तु जुहुयान्मूलमंत्रेण मंत्रवित् ॥१७॥ नारायणानुवाक्येन तिलसंम्मिश्रितं चरुम् । अग्नावग्निश्चरेत्यादि जपेन्मंत्रैः पृथक् पृथक् ॥१७६।। हुत्वा व्याहृतिभिः पश्चाद्धोमशेषं समापयेत् ।
आदित्य मण्डलान्तस्थं ध्यात्वा विष्णुसनातनम् ॥१८०॥ मंत्रेणाध्यं प्रदातव्यं त्वंततानामिति द्विजः। त्रिरात्रमेकरात्रम्वा दीक्षां कुर्वीत वैदिकीम् ॥१८॥ अध्यापयेत्ततःशिष्यान् विद्यामारण्यकी गुरुः । पुरतो वासुदेवस्य निर्जने विज (पि)नेषेः (स्थितः) ॥१८२।। अधः शायी ब्रह्मचारी दीक्षितो नियतोव्रती। प्रागेव भोजनादत्र ह्यधेतव्यं(अधीयीत)समाहितैः(तः)॥१८३