________________
२१६२
[ तृतीयो
वशिष्ठस्मृतिः
श्वक्रोष्टुगर्दभोलूकसामवाणार्त्तनिःस्वने ॥ १६२॥ खरोष्ट्रयानहस्त्यश्वनौवृक्षेरिणरोहणे ।
तत्कालिकाननध्यायान्वदन्ति मुनिसत्तमाः || १६३||
पशुमण्डूकनकुलश्वाहिमार्जार मूषकैः । कृतेऽन्तरेत्वहोरात्रमनध्यायं प्रकीर्तितम् ॥१६४॥
सिंहव्याघ्रवराहोष्ट्रमृग (यानेषु) जानिषु वों (वां) त्यजैः । अन्तरागमनेन्वाष्टं (?) वाध्यायेच्छकटार्धकम् ॥ १६५ ॥ गच्छेमा (द) नन्तरं वापि जानुभ्यां मुक्ति शुद्धये । परे (चरेत्) चान्द्रायणं वापि जानुभ्यां भुवि शुद्धये || १६६ || एवमध्यापयेच्छिष्यान्वाग्यतः संयतेन्द्रियः । शनैश्चशिक्षयेच्चैव न च पारुष्यवाग्भवेत् ॥ १६७॥ शयानः प्रोष्ठपादौ वा तैलाभ्यंगशिरस्तथा । नाध्यापयेत्तथा शिष्यन्नच पर्य्यङ्कसंस्थितः || १६८||
कृताञ्जलिस्तस्य मनो गुरोरभिमुखं शिशुः । अधीयीत तथा शिष्यो वाग्यतो नियतेन्द्रियः || १६६ ॥ एवमध्ययनं कुर्यात्तर्पयेद्द वतान् पितृन् । उत्सर्जनं तथा कुर्यात् पौषे मासेऽष्टकासु च ॥ १७० ॥ रोहिण्यां श्रवणे वापि पौर्णमास्यामथापि वा । उपाकर्मविधानेन कुर्य्याच्छिष्यातो गुरुः ॥ १७२॥ स्नात्वा विष्णुं समभ्यर्च्य तर्पयेत्पितृदेवताः । पयसा नपयित्वा तु ननानितं (?) दुयात् ॥ १७२॥