________________
वशिष्ठस्मृतिः
[ तृतीयो
उत्थाय पश्चिमे यामे यामं ध्यानं समाचरेत् । एवं प्रतिदिनं कुर्याद् ब्रह्मवादी जितेन्द्रियः || १३६ || वेदतानि तत्काले कुर्य्याद्विप्रो यथाविधि । अध्यापनमुपाकर्म श्रावण्या श्रवणेऽपिच ॥ १४०॥
हस्ते चोत्पद्यमाने वा पञ्चम्यां श्रवणेऽपिवा । नदीं गत्वा तु पूर्वाहे गुरुणा सहितो व्रती ॥ १४१ ॥ तत्र स्नानं (त्वा) विधानेन तर्पयेद्दवतानृषीन् । अर्चयित्वा शुचौ देशे हरिं सर्वगतं तथा ॥ १४२ ॥ । परितः पूजयेद्द वानृषींश्च कुसुमाक्षतैः । विमला मुरवीतानं नदधावा पशार्ङ्गिणे || १४३ || शाके राजसमे युक्तं सक्तं हृद्यं निवेदयेत् । अष्टोत्तरसहस्रं तु जपेदष्टाक्षरं मनु || १४४ || संस्थापयेदग्निमुपपादि पूर्वकम् ।
तत्र
दया (द्या)दाज्य भागंच कृत्वा होमं समापयेत् ॥ १४५।। श्रद्धा मेधा च सावित्री तथा प्रज्ञावधारणा | एतानुद्दिश्य होतव्यं सक्तुं साज्यं सशर्करम् ॥१४६॥ मण्डलाभ्यांच श्रृग्म्यांच सूक्त विष्णुप्रकाशकैः । ततः स्विष्टकृतं हुत्वा होमशेषं समापयेत् || १४७|| उपवीतानि देवस्य दद्यादष्टोत्तरं शतम् । अष्टाविंशति वा दद्याद्भक्त्या देवस्य शार्ङ्गिणः || १४८ || सुगन्धपुष्पधूपाद्यः नैवेद्य विविधैस्तथा । पूजयित्वा विधानेन नमस्कृत्य च भक्तिमान् ॥ १४६ ॥
२१६०
1