________________
२१५८ वशिष्ठस्मृतिः
[तृतीयोसा च प्रोमंत्र रत्नच जपोदयो दशन रंरानं(?) । उदुत्यमिति सूक्तन चोपस्थानं विसर्जयेत् ॥११८।। वैष्णवेषु च मंत्रेषु भिक्षाचरणमाचरेत् । न (भैक्षं)मेते (म्ले)छलब्धे तु तण्डुला नितरेषु वा ॥११६।। आपद्यपि न गृह्णीत पाषण्डपतितादिषु । दण्डाजिनोपवीतानि मेखलानि च धारयेत् ।।१२०।। भिक्षालब्धं च यद्रव्यमाचार्याय निवेदयेत् । तस्य प्रसादरूपेण भुञ्जीत तदनुज्ञया ॥१२॥ शुभे पात्रे च शुद्धान्नं गायच्या चाभिमंत्रयेत् । सत्यं त्वर्तेन परिषिंचामीति प्रदक्षिणम् ॥१२२॥ परिषिच्यत्वनेनैव ह्यर्पितं वैष्णवेषु च । पञ्चप्राणांश्च जुहुयात् पञ्चैवाऽऽहुतयः क्रमात् ।।१२३॥ ध्यायन्नारायणं देवं ततो भुञ्जीत वाग्यतः । अमृतापिधानमसीत्यापः प्राश्य विचक्षणः ॥१२४।। किञ्चिदुच्छिष्टमादाय सोदकं निर्वपेद्भुवि । संखे पुरस्य (१) निलयेप आंबुद निवासिनाम् ।। अर्थिनामुदकं नित्यमक्षय्यमुपतिष्ठतु । तत्र प्रक्षाल्य तोयेन मुखहस्तं मृदा सह ।।१२।। दंतान्काष्ठेन संशोध्य गण्डूषैश्चैव वारिभिः । प्रक्षाल्य हस्तौ पादौ च सम्यगाचमनं चरेत् ॥१२॥ उच्छिष्टपात्रं तमभि संप्रोक्ष्य च विशुध्यति । यावश्च हस्तपर्यन्तं तावदध्ययनं (चरेत्) पठेत् ॥१२७।