________________
अथ तृतीयोऽध्यायः वैष्णवानां निष्क्रमणान्नप्राशन संस्कारवर्णनम्
वशिष्ठ उवाच । अथ मासे चतुर्थे तु गृहान्निष्कामयेच्छिशुम् । सुस्नाप्य समलंकृत्वा स्वस्तिवाचनमाचरेत् ॥१॥ अर्चयेत्प्रयतो विष्णुं कर्मभिश्च सुशोभनैः । कदलीफलसंयुक्त दध्यन्नं च निवेदयेत् ॥२॥ सहस्रनामभिःस्तुत्वा नमस्कृत्वा तु विष्णवे । पुरतो वासुदेवस्य होमं कुर्याद्विधानतः ॥३॥ आयं गौरिति मंत्रण हंसःशुचिषदित्यूचा । परोमात्रण सूक्तन दध्यन्नं जुहुयाद् द्विजः ॥४॥ ततोऽर्कमंडले विष्णुं ध्यात्वा संपूजयेद्गुरु। हिरण्यमयवपुर्देवं शंखचक्रगदाधरम् ॥५॥ पद्मासनस्थं देवेशं सर्वाभरणभूषितम् । कुमारमीक्षयेद्भानु जपन्वै सूर्यदैवतम् ॥ ६ ॥ चित्रं देवानामिति च जपित्वा (जप्त्वा) ऽध्यं निवेदयेत् । मंत्रस्यत्वेति जप्त्वा च नमस्कृत्य दिवाकरम् ॥ ७ ॥ ब्राह्मणं भोजयेत्पश्चाच्छत्स्ना(शक्त्या) दद्या(च) दक्षिणाम् । एवं गृहान्निष्क्रमणं शिशोःकुर्य्याद्विजोत्तमाः ॥ ८॥ अथान्नप्राशनं कुर्यात् षष्ठे मासि विधानतः। विराड्य ( विराडाख्यं ) हरि तत्र पूजयेत्कुसुमैदलैः ॥६॥