________________
२१४६ वशिष्ठस्मृतिः
[द्वितीयतस्य दक्षिणकर्णन्तु जपेदष्टाक्षरं स्वयम् । मूर्ध्नि हस्तं विनिक्षिप्य जपेञ्चद्वादशाक्षरम् ।।२४।। षडक्षरेण मंत्रण कुशैः सम्मार्जयेत्तनुं । नाम कुर्यात्ततः पश्चाद्वष्णवं पापनाशनम् ।।२।। मासैश्च वत्सरैश्चैव मूर्तिभिर्द्वादशैर्युतम् । आरभ्य मार्गशीर्षतु केशवाद्यरधिष्ठितम् ॥२६।। मासे यस्मिंस्तु योजातस्तस्यतन्नामकीर्तितम् । तस्यनैसर्गिकं नाम वैष्णवन्तु विधीयते ॥२७॥ अन्यानि चैव नामानि गुणयोगे भवंति हि । प्रथमं वैष्णवं नाम सर्ववर्णेषु कीर्त्तितम् ।।२८।। न चेत्तु वैष्णवोनाम यस्य वै द्विजसत्तमाः । अनामकस्सविज्ञयः सर्वकर्मविगर्हितः ॥२६॥ एवं हि नामकरणं कर्त्तव्यं द्विजसत्तमाः । जाति (त) कर्मण्यलाभेतु विष्णोश्चक्रादि धारणम् ॥३०॥ चौलोपनयने वापि तन्मंत्राध्ययनेऽपि वा । विधिना वैष्णवं चक्र धारयित्वा द्विजोत्तमाः ॥३१॥
कर्म कुर्यात्ततः पश्वाच्छौतस्मात विधानतः ॥३२॥ इति श्रीवशिष्ठस्मृतौ नामकरणादिविन्यासो द्वितीयोध्यायः