________________
२१४४
वशिष्ठस्मृतिः
[द्वितीयोजाते पुत्र पिता स्नात्वा पुत्रं तेश (दश) दिनान्तरम् । मुच्यते पैतृकात्तस्मात् सद्य एव द्विजोत्तमाः ॥३॥ तत्रदानं प्रकुर्वीत यथाशत्त्यनुसारतः । एकादशेऽह्नि संप्राप्ते मंगलस्नानमाचरेत् ॥४॥ ततःसूतकनिवृत्यर्थं स्वस्तिवाचनमाचरेत् । वैष्णवैाह्मणैः सार्द्ध मर्चयेत्पुरुषोत्तमम् ॥ ५॥ स पुष्पमण्डपे रम्ये विमानध्वजशोभिते । अर्चयेद्गंधपुष्पाद्यधूपदीपनिवेदितः ॥ ६ ॥ आराधनं भगवतः कुर्य्याच्चक्रस्य परमात्मनः । नाम्ना नाकारयेच्चक्र मैश्वर्येण वैष्णवैः ॥ ७ ॥ षट्कोणैश्च समायुक्त षडक्षरसमन्वितम् । 'मध्ये प्रणवसंयुक्तमेन (तच्च ) चक्रमिहोच्यते ॥ ८॥ बहुमिस्तु धनैर्युक्त मूलमंत्रण संयुतम् । मध्ये तद्वीजसंयुक्त शंखं कुर्य्याद्विचक्षणः ।। स्नानं पंचामृतः शुद्धरर्चयेत्पुरतो हरेः ॥६॥ ध्यात्वा सुदर्शनं तस्मिन् सहस्रारं महौजसम् । कोटिसूर्य्यसमप्रख्यं तेजसाभुवनत्रयम् ॥१०॥ पूजयन्तं सहस्रारं सर्वमंत्रसमन्वितम् । ध्यात्वा दिव्यसहस्रारं पूजयेत्पुरतो हरेः ॥११॥ पडक्षरेण मंत्रण पूजयित्वा · विधानतः । जपं कुर्यात्ततः पश्चाद्दशसाहस्रसंख्यया ॥१२॥