________________
वशिष्ठस्मृतिः
[ प्रथमो
तस्मात्तु ब्राह्मणो नित्यं प्रयत्नेनार्चयेद्धरिं । तदाधारणभावेन देवताः परितोऽर्चयेत् ||२७|| अवैष्णवस्तु यो विप्रश्चांडालाद्धसः स्मृतः । न तेन सह भोक्तव्यमाद्यापि ( मापद्यपि ) कदाचन ||२८|| सुदर्शनोर्ध्वपुंड्राणां धारणं प्रथमं स्मृतम् । तन्मंत्राध्ययनं चैव तदीयाराधनन्तथा ||२६|| नित्यमाराधनं विष्णोर्ध्यानं होमो जपस्तथा । तत्कथाश्रवणं चैव तन्नाम्नश्चैव कीर्त्तनम् ||३०|| तत्पादतीर्थसेवा च तन्निवेदितभोजनम् | नर्त्तनं गीतवादनम् ||३१|
प्रणामस्तस्य पुरतो
ततस्तोत्रपठनं
२१४२
तदन्येषामसेव्यता |
चैव संपूजयन्नित्यं नारायणमनामयम् ||३२||
एवं
स वैष्णवो भवेद्विप्रस्सर्वलोकेषु पूजितः ।
ललाटे चोर्ध्व पुंड तु बाहुमूले सुदर्शनम् ||३३|| कंठे यद्वाक्षमालां तु पवित्र दक्षिणे करे | वैष्णवस्य (वैष्णवेन) सदा धार्य्या हरिसंबन्धवेदनात् ||३४|| शंखचक्रांकं न कुर्याद्वात्मनो बाहुमूलयोः । कलत्रायत्प्र (पत्य) भृत्येषु पश्वादिषु विमुक्तये ||३५|| स पुत्र पशुदाराणां ब्राह्माणानां विशेषतः । कुर्य्यात्तु चिन्तन चैव वैष्णवं नाम लक्ष्म च ||३६|| शंखचक्र स्फुटं कुर्य्यात्प्रतप्ते बाहुमूलयोः सर्वाश्रमेषु वसतां स्त्रीणां च श्रुतिवेदनात् ||३७||