________________
ऽध्यायः] उर्ध्वपुंडमहत्त्ववर्णम्
२१४१ शूद्रादीनां तु रुद्राद्या अर्चनीयाः प्रकीर्तिताः। यत्तु रुद्रार्चनं प्रोक्त पुराणेषु स्मृतिष्वपि ॥१७॥ तदब्रह्मण्यविषयमेवमाहप्रजापतिः । रुद्रार्चनं त्रिपुंडू च यत्पुराणेषु गीयते । क्षत्रविट्शूद्रजातीनां नेतरेषां तदुच्यते ॥१८॥ तस्मात्रिपुडू विप्राणां (विप्रैस्तु) न धार्य मुनिसत्तमाः। यदाज्ञानाच्च विभ्रियुः पतितास्तेन संशयः ॥१६॥ ऊर्ध्वपुंडं तु विप्राणां सततं श्रुतिचोदितम् । उर्ध्व पुंडो मृदा शुभ्रो ललाटे यस्य दृश्यते ॥२०॥ सर्वपापविशुद्धात्मा स याति हरिमन्दिरे । स्नानं दानं तपो होम स्वाध्यायः पितृतर्पणम् ॥ भस्मी भवन्तु (न्ति) तत्सर्वमुर्ध्वपुंडविनाकृतम् ।।२१॥ मुमुक्षुभिर्वीतरागैरप्रमतः समाहितः । उर्ध्वपुंड हरेः पूजाक्ष (छत्रा) धेर(सम) लंकृतम ॥२२॥ ब्राह्मणेनैव मृद्धा- न भस्म न च चन्दनं । यद्यबुध्या तु विभृयात्प्रायश्चित्ती भवेत्तु सः ॥२३॥ न त्रिपुंड द्विजैर्धाों न पट्टाकारमेव च । न चान्यदेवता भक्तिराद्यापि (रापद्यपि) कदाचन ॥२४॥ यस्तु नारायणादन्यं स्वतंत्रण प्रपूजयेत् । भवेयुनिष्फलास्तस्य यज्ञदानादिसक्रियाः ॥२५॥ अङ्गभावेन देवानामर्चनं न निषिध्यते । स्वतंत्र बुद्ध या यः कुर्यात् ब्राह्मणो नरकं व्रजेत् ॥२६।।