________________
२१४०
वशिष्ठस्मृतिः
तस्माच्च वैष्णवाः विप्राः प्रकृत्यादिषु सत्तमाः । अवैष्णवत्वं विप्राणां महापातकसम्मितम् ॥ ६ ॥ अवैष्णवस्तु यो विप्रः सर्वकर्मसु गर्हितः । रौरवं नरकं प्राप्य चाण्डालीं योनिमाप्नुयात् ॥ ७ ॥ नित्य (त्यं) नैमित्तिकं काम्यं त्रिविधं श्रुति चोदितम् । अवैष्णवानां विप्राणां कर्म्म तन्निष्फलं भवेत् ॥ ८ ॥ श्रीमहाविष्णुमन्येरन् हीनदेवेन दुर्मतिः । साधारणं सकृत्व ते सोंऽत्यजोनान्त्यजोंऽत्यजः ॥ ६ ॥ यो विष्णुशेषमात्मानमन्यशेषं प्रपद्यते ।
स चाण्डालो महापापी रौरवं नरकं व्रजेत् ||१०|| अवैष्णवत्त्वं विप्राणामात्मनाशनकारणम् । तस्मात्तु वैष्णवत्वं वै विप्राणां श्रुतिचोदितम् ||११|| अवैष्णवोहिषो (हतो) विप्रो हतं श्राद्धमदक्षिणं । अब्रह्मण्यं हतं क्षात्रमनाचारं हतं कुलम् ||१२|| येवासुदेवं नार्चन्तिसर्वलोकेश्वरं हरिम् । तेषां हि नरके वासः कल्पायुतशतैरपि ||१३|| चतुर्वेदी च यो विप्रो वासुदेवं न विन्दति । वेदभरभराक्रान्तः स वै ब्राह्मणगर्द्धभः || १४ || तस्मादवैष्णवत्वेन ब्राह्माद्धि ( ब्राह्मणत्वं ) विहन्यते । वैष्णवत्वेन संसिद्धिः लभते नात्र संशयः ||१५|| नारायणं परंब्रह्म ब्राह्मणानां हि दैवतम् । सोमसूर्य्यादयोदेवा क्षत्रियाणां विशां (तथा) पति ||१६||
[ प्रथमो.