SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ श्री गणेशाय नमः ॥ अथ ॥ * पुलस्त्यस्मृतिः * वर्णाश्रमधर्मवर्णनम् कुरुक्ष ेत्र े महात्मानं पुलस्त्यमृषयोऽब्रुवन् । aire धर्मान्प्रकारांश्च नो वद स्मार्तमागमम् ॥ १ ॥ एवं पृष्टः प्रत्युवाच सर्वास्तान् पृच्छत ऋषीन् । पंचधा वास्थितं धर्मं शृणुध्वं द्विजसत्तमाः ॥ २ ॥ वर्णधर्मः स्मृतस्त्वेक आश्रमाणामतः परम् । वर्णाश्रमस्तृतीयस्तु गुणनैमित्तिकस्तथा ॥ ३ ॥ वर्णमेकं समाश्रित्य योऽधिकारः प्रवर्तते । वर्णधर्मः स विज्ञयो यथोपनयनं त्रिषु ॥ ४ ॥ यस्त्वाश्रयं समाश्रित्य पदार्थः संविधीयते । उक्त आश्रमधमस्तु भिक्षापिण्डादिकं तथा ॥ ५ ॥ उभयस्य निमित्त ेन यो विधि ः सम्प्रवर्तते । नैमित्तिकः सविज्ञ ेयः प्रायश्चित्तविधिर्यथा ॥ ६॥ ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः । उक्त आश्रमधर्मस्तु राजधर्मस्तु पञ्चमः ॥ ७ ॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy