________________
२१३२
अरुणस्मृतिः
ब्रह्मराक्षसः ।
प्रतिग्रहाधिकं नास्ति ब्राह्मणस्य भ्रश्यते ब्रह्मचर्यात्तु नरके च नरकान्निसृतः काले जायते अन्यै (अन्ते) र्जलमयो हस्ती मानुषोजलमाश्रितः ॥१३५॥ तस्माद्विनिर्गतः पश्चादुलुकः श्वापदो भवेत् । प्राप्यते मानुषीं योनिं दरिद्रो दुःखितस्तथा ॥ १३६ ॥ व्याधितश्चैव मूर्खश्च बन्धुभिश्च विवर्जितः । दृष्टो (ष्ट्वा ) परि(र) श्रियं दीप्ता (प्र) सुनियंतं मुहुर्मुहुः ||१३|| दुष्टप्रतिग्रहहतो विप्रो भवति किल्विषी ।
तस्मात्प्रतिग्रहं कृत्वा प्रायश्चित्तं समाचरेत् ॥ १३८|| तस्मात्प्रतिग्रहधनं न स्थिरं स्यात्कदाचन । प्राज्ञः प्रतिग्रहं कृत्वा तद्धनं सद्गतिं नयेत् ॥ १३६ ॥ यज्ञाद्वा सप्तसंस्थेषु पुण्यान्यायतनान्यथा । शिवस्य विष्णो मार्तण्ड स्यागारे विसृजेत्तथा ॥१४० वापीकूपतडागेषु ब्रह्मस्वगुणमुक्तये ।
एतेषु विसृजेच्छल्कमन्यथा नरकं व्रजेत् ॥ १४१ ॥ प्रायश्चित्तं तु यत्प्रोक्तं ब्राह्मणस्य प्रतिग्रहे । शूद्रादि वर्णिनां चैव (चैतत्) तद्विगुणं च समाचरेत्॥१४२॥ शय्याच पादुके विद्यां छत्र चामरवाससी । अशनेषु च सर्वेषु प्रायश्चित्तमभोजनम् || १४३ ॥ यानि तेषामशेषाणां ते कृत्वा स्मरणं परम् । कृते येनानुतापो वै यस्य पुंसः प्रजायते ॥ १४४॥
विनाशनम् ।
[ प्रथमो
प्रजायते ॥ १३४||