________________
ऽध्यायः] प्रतिग्रह प्रायश्चित्तवर्णनम् २१३१
रक्तोदकं तत्रवहेत्सपूष्णंपूयैश्चमांसैश्च ( हि ) कर्दमाकुलं । कल्पत्रयं पच्यति तस्यमध्ये अनुग्रहंचैव दानं(तु)कुर्यात्।।१२३॥ तस्मादनुग्रहं कुर्याच्छास्त्रोक्तविधिना ततः । प्राजापत्यद्वयं कुर्यादथवा शतभोजनम् ॥१२४।। जपेद्वाप्यस्यवामीयं शिवसंकल्पमेवच। रथंतरं वामदेव्यं मुच्यते तेन किल्विषात् ।।१२।। हिरण्यकामधेन्वादि अन्येषां तु यथोदितम् । महाभूतभयं तेभ्यः प्रायश्चित्तमथोच्यते ॥१२६॥ एतेभ्यः प्रतिगृह्णीयाद्धर्माभासो द्विजो यदा । तदा मज्जेत नरके पूयविष्ठासमाकुले ॥१२७।। धर्माभासो द्विजो यस्मात्प्रतिगृह्य चरेव्रतं । तप्तकृच्छद्वयं चैव अतिकृच्छ तथैव च ॥१२८॥ अथवा मुच्यते पापात्प्राणायामपरायणः । प्राणयामैदेहेत्सवं शरीरे यच्च पातकम् ॥१२६।। यथा वेगगतो वह्निः शुष्का दहतीन्धनम् । प्राणायामैस्तथा पापं शुष्काद्रं नात्र संशयः ॥१३०।। पावकाइव दीप्यन्ते जप होमक्रियारताः । प्रतिग्रहेण शाम्यन्ति पावकः सलिलादिव ॥१३॥ तान् प्रतिग्रहजान दोषान् प्राणयामैर्द्विजोत्तमाः। नाशयन्तीह विद्वांसो वायुलेशैरिवाम्बरम् ॥१३२।। गायत्र्या दश लक्षण प्राणायामसहस्रतः। नश्यन्ति पाप संघानि का कथात्र प्रतिग्रहे ॥१३३॥