SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ २१३० अरुणस्मृतिः [प्रथमो एतेषु भागं गृह्णानो ब्राह्मणो नरकाय सः । प्रमादादथ लोभेन गृहीत्वा व्रतमाचरेत् ॥११२॥ जलेनत्रिषवणस्नायी चरेत्सांतपनं द्वयं । गोसहस्रमहादानं (भुवि ) तुल्यं न तत्परं ॥११३॥ गोभिश्चध्रियते लोको गावः सर्वस्यमातरः। गोसहस्रसमुद्भूतो दुस्तरः स्या(द)द्विजन्मनां ॥११४॥ गो शते गो सहस्र च वैतरण्याश्च यास्मृतः (स्मृताः)। धेनुर्यान्याश्च या गावो रत्नहेम विनिर्मिताः ॥११॥ एतास्तु द्विजवर्येण वर्जनीयाः प्रयत्नतः ॥ यज्ञकर्मणि या धेनुर्याधेन्वा(धेनुः) धर्मकर्मणि ॥११६॥ प्रायश्चित्तनिमित्तवा (या) होमार्थ दुर्बलाय वा । मधुपर्के च या धेनुः या धेनुः कर्म सिद्धये ॥११७॥ एता सर्वा द्विजो विद्वान् प्रतिगृह्य यतस्ततः। न स पापेन लिप्येत पद्मपत्रमिवांभसा ॥११८॥ गोसहस्राधिकं चैव प्रतिगृह्य ह्यकामतः । गोमूत्रयावकाहारो मासेनैकेन शुद्ध यति ॥११॥ ऋक् साम वेदो नियतं जपेद्वा शिवसन्निधौ। नारायणानुस्मरणान्मुच्यते दुष्प्रतिग्रहात् ॥१२०॥ गायत्र्या दशलक्षण प्राणायामसहस्रतः। तेन पापेन मुच्येत अन्यथा नरकं व्रजेत् ॥१२१॥ प्रतिगृह्य वैतरणी लोहदंडं महाव्ययम् । वैतरण्या न मुच्येत यावदाभूतसंप्लवम् ॥१२२॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy