________________
२१२८
अरुणस्मृतिः
हरतो हारयतस्तम् (ताम् ) मंदबुद्धिस्ततो श्रुतः । स बद्धोवारुणैः पाशैस्तिर्यग्योनिषु जायते ॥ ६१॥ स्वदत्तां परदत्तां वा यो हरेश्च वसुन्धरां । षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥६२॥ एकं पश्वनृते हन्ति कन्यार्थे योऽनृतं वदेत् सर्वभूम्यनृतं हन्तिमास्मभूम्यऽनृतं वद ||१३|| प्रतिग्रहे न दोषः स्याद्गोभूमेस्तु (च) विक्रये । पितामहाच्च या भूमिः प्राप्ता या प्रपितामहात् ||१४|| तामेव विक्रयं कुर्वन्नरकं प्रतिपद्यते । अने (रे) र्वाऽपहृताभूमिर्यः शक्तस्तमुपेक्षते ||५|| नरके पतते घोरे यावदाभूतसंप्लवं । तस्माद्भूमिं च पत्नीं च मातरं गुर्वङ्गनां ॥६६॥ अन्यैरपहृतां दृष्ट्वा सद्यः प्राणान्परित्यजेत् । नरस्य विक्रयं कृत्वा चरेच्चान्द्रायणं त्रयम् ॥६७ त्रिगुणं वाचरेद्वदं नवग्रहमखं तथा । नवग्रहमखे नैव दृष्ट्वा तत्प्रशमं ब्रजेत् ||१८|| नवग्रहमखं तस्मात्कुर्यात्पापप्रशान्तये || एतेन मुच्यते पापादन्यथा नरकं व्रजेत् ॥६६॥ महादानसमं लोके न भूतं न भविष्यति । यत्तत् षोडशधा प्रोक्तं मत्स्येन तु खगोत्तम १ ॥ १०० ॥ आद्य तु सर्वदानानां तुलापुरुषसंज्ञकं । हिरण्यगर्भदानं च ब्रह्माण्डं
तदनंतरं ॥ १०१ ॥
[ प्रथमो