________________
ऽध्यायः] प्रतिग्रह प्रायश्चित्तवर्णनम् २१२७
तैलं कुम्भहसं चैव तैलयन्त्रमथापिवा । एतज्ज्ञात्वा न कुर्याद्व दुष्टराजप्रतिग्रहं ॥८॥ कृत्वा तं भूढबुद्धिस्तु चरेश्चान्द्रायणत्रयं । सहस्र भोजयेद्विप्रान् सूर्यभक्तान् जितेन्द्रियान् ।।८।। एते (नैव) चैव विशुध्यन्ति दुष्टाद्राजप्रतिग्रहात् । लक्षत्रयं तु गायत्री चरेश्चान्द्रायणं त्रयं ।।८२॥ गृहीत्वा द्विमुखींधेनुं धान्यानां दशपर्वतान् । एतेष्वन्यतमंगृह्णन्नभूयः पुरुषो भवेत् ॥८३॥ प्रथमोधान्यशैलस्तु द्वितीयोलवणान्वयः । गुड़ाचलस्तृतीयस्तु चतुर्थो हेमपर्वतः ॥८४॥ पंचमस्तिलशैलस्तु षष्ठः कार्पासपर्वतः । सप्तमो घृतशैलः स्याद्रत्नशैलस्तथाष्टमः ॥८॥ राजतो नवमस्तद्वदशमः शर्कराऽचलः ॥ एते दशाचलाः प्रोक्ता द्विमुखी च ततोधिका ॥८६॥ एतेषां ग्रहणे विप्रः क्षयेन्मासचतुष्टयं ( यात्) । प्राजापत्येन कृच्छ्रण षष्ठमंशं परित्यजेत् ।।८।। जपेद्वादशलक्षाणि गायत्र्याः सायं(नक्त)भोजनः । एतेन मुच्यते पापादन्यथा नरकं व्रजेत् ।।८८॥ भूमिं यः प्रतिगृह्णाति भूमि यश्च प्रयच्छति । उभौ तौ पुण्यकर्माणौ नियतं स्वर्गगामिनौ ।।६।। नास्ति भूम्याः समं दानं नास्ति भूम्याः समोनिधिः । नास्तिभूम्याः समो धर्मो नानृतात्पातकं परं ॥१०॥