________________
२१२६ अरुणस्मृतिः
[प्रथमोशूद्राद्यदि गां गृह्णीयाञ्चरेद्वा ऎदवत्रयं । तस्मात्तां प्रतिगृह्णीयात्परंविक्रयणं न हि ॥६॥ कृष्णाजिक (न) मृतशय्यां कालपुरुषमेव च। प्रतिग्राही कुरुक्षेत्रे न भूयः पुरुषो भवेत् ।।७०॥ तथापि मनसः शुध्यै प्रायश्चितं समाचरेत् । तप्तकृच्छद्वयं कुर्यादैन्दवेन समन्वितम् ॥७१॥ सत्रेण यजते वाथ जपेद्वालक्षसप्तकं । वापीकूपतड़ागादिखननैविसृजेद्धनं ॥ ७२ ॥ तदनित्यं स (भ) वेद्यस्मान्नस्थिरंहिभवेद्वसु । प्रतिग्रहार्जितं द्रव्यं सर्व नश्यतिमूलतः ॥७३॥ राजप्रतिग्रहो घोरो मध्वास्वादो विषोपमः । तं ज्ञात्वा मानवः कस्मात्करिष्येदं (प्यति) प्रलोभनम् ।।७४॥ भक्षिते मानुषेमांसे प्रायश्चित्तं विधीयते । तत्करिष्यामहे सर्वे नतु राजप्रतिग्रहं ॥७॥ प्रतिग्रहरतानां तु ब्राह्मणानां खगोत्तम !। मानुष्यमपिदुःप्रायं (प्राप्यं) ब्रह्मलोकः कुतो भवेत् ॥७६॥ ग्रहणादि शुभाः कालाः दान होमादि कुर्वतां । गृह्णति शुभकर्तृणां ब्राह्मणस्य गृहे तथा ॥७७।। तामिस्रमंधतामिस्र पूर्यविष्ठा च शोणितं । असिपत्रवनंघोरं सदृशं श्लेष्मभोजनम् ॥७८॥ शाल्मलं (लिं) काकतुण्डं च पथ्यो वैतरणी तथा। भृक्थं (च) गुड़पोथं च मर्मरं तप्तवालुकं ।।७।।