________________
ऽध्वायः] प्रतिग्रह प्रायश्चित्तवर्णनम् २१२५
इहैव सक्षणार्द्धन दिवा कीर्ति समो भवेत् । परलोकेऽपि तस्यैव नान्या विद्याद् गतिन्तथा ॥८॥ ऐहिकामुष्मिका यस्तस्मात्तान्परि वर्जयेत् । प्रमादात्तान् गृहीत्वातु प्रायश्चित्तं समाचरेत् ॥५६॥ सवासाजल माप्लुत्य षष्ठांशं परिवर्जयेत् । चान्द्रायणं ततः कुर्याज्ज्योतिष्टोमं यजेत्तथा ॥६॥ विष्णो (ष्णु) जिष्णो (ष्णु) हृषीकेश प्रतिमा स्थापयेत्तु वा। भृणार्थं प्रतिगृह्णानो मुच्यतेदुष्प्रतिग्रहात् ॥६१॥ कन्याप्रतिगृहं कृत्वा ब्राह्मणस्तु यथाविधि । कर्मणोऽन्ते ततः कुर्याभूरिदानं द्विजातिषु ॥६२॥ कन्याप्रतिग्रहस्तेन व्रजत्येवददन्वशु (सु)। भूरिदानं न चेत्कुर्यात्कन्यादाने द्विजो यदा ॥३॥ तदा कन्या स्वरूपेण सा कन्या तान् जिघांसति । गृहवासः सुखाय पत्नी मूलं च तत्सुखम् ॥६४॥ सा पत्नी या विनीता च वि(चि) त्तज्ञा वशवर्तिनी। तद्रपा भूरिदानाञ्च अन्यथा विकला भवेत् ॥६।। कपिलां प्रतिगृह्णीयाद्धोमाथं श्रेयसे द्विजः । कपिला दर्शने पुण्यं तस्यैव दर्शनेस्मृतं ॥६६॥ पुण्यदान उ (मु) भाभ्यां चेत्पुण्यं तस्यैवपोषणे । प्रतिग्रहस्ततस्तस्याः पुण्यात्पुण्यतरः स्मृतः॥६७॥ परमविक्रमं कुर्य्यान्महादोषो भवेत्ततः । कपिलाविक्रयं कृत्वा चरेश्चान्द्रायणत्रयं ॥६॥