________________
२१२४ अरुणस्मृतिः
[प्रथमोऋषिभिश्च पुरा गाथा गीता अश्वस्य विक्रये । असंभाष्योापांक्त यः पापिष्टः स दुरात्मवान् ।।४७|| यानि कानि च पापानि ब्रह्महत्या समानि च । प्रायश्चित्त विशुद्ध यन्ति न तैश्चहयविक्रयी ॥४॥ रोम्णि रोम्णि भ्रूणहत्या तस्य नित्यं विधीयते। अश्वानां प्रतिगृहीतानां विक्रयन्न शुभम्भवेत् ॥४६।। साऽप्रकल्पशतं यावत्पच्यते ताम्रभ्रष्टके । तस्य ( तस्मा ) द्विनिर्गते काले पाषाणाऽखु भवेन्नरः ॥५०॥ तस्मान्न प्रतिगृह्णीयात् द्विजस्तत्पापभाग भवेत् । अश्वानां विक्रयं कृत्वा चरेच्चान्द्रायणं त्रयम् ॥५१॥ लक्षत्रयं वा गायत्र्या जपेद्वाशु समाहितः । प्रतिग्रहं (हे) चरेद्विप्रः (श्चा) अतिकृच्छ न संशयः ॥५२॥ द्विगुणंच जपेद्वदं ब्राह्मणान् भोजयेच्छतम् । आपत्सु प्रतिगृह्णान एकेनैव विशुद्ध यति ।।३।। यथार्थेन च सृष्टानां ब्रह्मणा पद्मयोनिना। तेषां प्रतिग्रहो घोरो न कुर्याद् दुस्तरो यतः ॥५४॥ प्रतिग्रहेण सहसा यदेनो भवति द्विजे। अपि सर्वमधीयानः तच्छृणुष्व यथा कृतम् ॥५५॥ नाभिभाषेत तं दृष्ट्वा मुखं च न विलोकयेत् । दुष्ट प्रतिग्रहहतो (विप्रो) सदा भवति किल्विषी ॥५६।। मुखाऽवलोकने (नैव) येन प्रायश्चित्ती भवेद् द्विजः । जानन् कथं चिद्विप्रोऽपि निन्दितं तु समाचरेत् ॥५७/