________________
ऽध्यायः ]
प्रतिग्रह प्रायश्चित्तवर्णनम्
२१२३
रुद्रान् पुरुषसूक्तश्च
मण्डलाध्यायमेवच ।
गायत्रींलक्षमेकन्तु मुच्यते नात्र संशयः ||३६|| गृहदानं महादानं न दानन्तु गृहात्परम् । येन दानेन अरुण ! सर्वदत्त भवन्ति हि ||३७||
गृहोपकरणान् सर्वान् गोमहिष्यादि भूषणान् । कण्डनी पेषणी चुल्ही उदकुम्भः प्रमार्जनी ||३८|| शय्याच भोजनञ्चैव वितानं छत्रमेवच । एते चान्ये च बहवो दत्तास्तेन भवन्ति हि ॥ ३६ ॥ प्रतिगृह्य च तान् सर्वान् गृहीतानि भवन्ति हि । अन्यैश्च बहुभिर्दानै गृहदानं न संभवेत् ||४०|| गृहप्रतिग्रहस्तेन दुस्तरो हि द्विजन्मनाम् । तस्मात्प्रतिग्रहं कृत्वा प्रायश्चित्तं समाचरेत् ॥४१॥ कृच्छ्रत्रयं चरेद्विप्रो महासान्तपनं तु वा । शतं वा भोजयेद्विप्रान् गायत्र्या वा त्रिलक्षकं ॥ ४२ ॥ प्रायश्चित्ते कृते विप्रो मुच्यते दुष्प्रतिग्रहात् । प्रायश्चित्तं न चेत् कुर्याद् ब्राह्मणोऽज्ञानमोहितः ॥ ४३ ॥ तद्युवानः प्रमीयन्ते नप्तारः पुत्रपौत्रकाः । मृतश्च प्रेततां गच्छेन्न ग्राह्यो अश्वदानं महादानं तद्यत्नाच्च विवर्जयेत् । यावन्त्यश्वस्य रोमाणि तावत्स्वर्गगतोऽश्वदः ||४५ || तमेव प्रतिगृह्णानो नरके प्रति पच्यते । प्रतिग्रहे न दोषः स्याद्दोषस्तस्यैव विक्रये ॥ ४६ ॥
दुष्प्रतिग्रहः || ४४ ||