SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ [प्रथमो २१२२ अरुणस्मृतिः . आदित्य उवाच । प्रतिग्रहेण विप्राणां ब्राह्म तेजः प्रशाम्यति। अतः प्रतिग्रहं कृत्वा प्रायश्चित्त समाचरेत् ॥२६॥ दुष्टप्रतिग्रहं कृत्वा विप्रो भवति किल्विषी। अपि भिक्षा गृहीते तु पुण्यमन्त्रमुदीरयेत् ।।२७।। प्रतिग्रहेषु सर्वेषु जपहोमादिकं भवेत् । प्रतिग्रहे कुत्सितानां त्रिभिः कृच्छ विशुद्ध यति ॥२८॥ त्रिगुणं वा जपेद्वदं गायत्र्या वायुतत्रयम् । जपं होमादिकं कुर्यात्कृते यज्ञ प्रतिग्रहे ।।२।। गुडघेवादिदानानां प्रायश्चित्तमथोच्यते । प्रथमा घृतधेनुः स्याद् गुड़धेनुरथापरा ॥३०॥ तिलधेनुस्तृतीया तु चतुर्थी जलसञ्जया (सज्ञिता )। क्षीरधेनुश्च विख्याता मधुधेनुरथापि वा ॥३१॥ सप्तमी शर्कराधेनुर्दधिधेनुरथाष्टमी रसधेनुश्च नवमी दशमी स्यात्स्वरूपतः ॥३२॥ एतासां दशधेनूनामितरासां विशेषतः । प्रतिग्रहे चरेविप्रः प्रायश्चित्तमतन्द्रितः ॥३३।। जपेद्वा पौरुषं सूक्तमप्सु चैवाघमर्षणम् । अहोरात्रस्थिताच्चैव मुच्यते चैव किल्विषात् ॥३४।। अजां च महिषीञ्चैव वृषलं युक्तलाङ्गलम् । शकटं प्रतिगृह्णानः पादोनं कृच्छमाचरेत् ॥३२॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy