________________
ऽध्यायः] प्रतिग्रह प्रायश्चित्तवर्णनम् २१२१
अरुण उवाच । भुक्त्वान्नं ब्राह्मणस्येह ब्राह्मणादिषु वर्णिनाम् । . कीदृशं वद कर्तव्यं प्रायश्चित्त द्विजोत्तम ? ॥१७॥
आदित्य उवाच । ब्राह्मणान्नं तु वै भुक्त्वा सायं प्रातः शुचिःस्थितः । गायत्र्यष्टसहस्रन्तु जप्त्वा शुद्धिमवाप्नुयात् ॥१८॥ द्विगुणं क्षत्रियस्यान्ने त्रिगुणं वैश्यसंभवे । चतुर्गुणं तु शूद्रान्ने ततः संशुध्यति द्विजः ॥१६॥ गणान्नं गणिकान्नं च यच्चान्नं ग्रामयाचकं (याचितम् )। सूतकान्नं तु वै भुक्त्वा विप्रश्चान्द्रायणं चरेत् ।।२०।। मासमेकं जपेद्गोष्ठे लक्षमेकं द्विजोत्तमः । गायत्र्यास्तु पयोभक्षी मुच्यतेऽसत्प्रतिग्रहात् ।।२।। परमापद्गतेनापि अन्त्यजातिपरिग्रहः । न ग्राह्यो ब्राह्मणेनेह न ग्राह्यः स्वर्गमिच्छता ॥२२॥ अंत्यजात्तु प्रतिगृह्य दरयूनां पतितेषु च । ब्राह्मणो नरकं याति योनिञ्चायाति शूकरीम् ॥२३॥
अरुण उवाच । प्रतिगृह्य द्विजो मोहात्प्रमादादथ भास्कर ? । महादाने गृहीते तु प्रायश्चित्त कथं भवेत् ॥२४॥ पृथिव्यां यानि दानानि उत्तमान्यधमानि च । भानों ? भास्कर ? मार्तण्ड ? तन्मे विस्तरतो वद ॥२५॥
न ग्राह्या
गह्य
दर
ति शूकर