________________
२१२० अरुणस्मृतिः
[प्रथमोएवं विप्रान लोकानां पूजया संप्रयच्छतः। एतदर्थं हि विद्वद्भ्यो देयं दानं च यत्नतः ॥ ७॥ अन्वेष्याऽन्वेष्य तत (ता) मात्मनः शुद्धिमिच्छता । यथा पुण्यं शुभं कश्चिदन्वेष्यान्वेष्य यत्नतः॥८॥ विप्रे प्रीणाति तद्वत्स दानं देयं खगोत्तम ? । विद्वान् प्रतिग्रहं गृह्य कृत्वा तत्कायशोधनम् ॥६॥ आत्मानं शोधयित्वा न निर्गुणस्तु निमजति । अहोरात्रगतं पुण्यं पाक्षिकं मासिकं तथा ॥१०॥ षण्मासाच्चाब्दिकं यच्च द्वादशाब्दिकमेवच । जन्मान्तिकं च सुकृतं प्रतिग्रहकृतेन तु ॥११॥ नश्यते ब्राह्मणस्येह प्रायश्चित्तमकुर्वति । एतस्मात् कारणाद् विप्राः प्रायश्चित्तभयात् खग ? ॥१२॥ सद्वृत्ता वर्त (ज) यन्तीह न गृह्णन्ति प्रतिग्रहम् । प्रतिग्रहे कृते चैव प्रायश्चित्त समाचरेत् ॥१३।। दैवि (के) पैतृ(के) वापि भुक्त्वा विप्रस्य (विप्रस्तु) वै द्विज ?। तदन्नोदरमृत्युः स्याच्छृणु यां गतिमाप्नुयात् ॥१४॥ ब्राह्मान्नेन दरिद्रः स्यात् क्षत्रियान्नान्यशु (पशु) भवेत् । वैश्यान्नेन कृमित्वं स्याच्छूद्रान्नान्नरकं व्रजेत् ॥१५॥ एवमन्यै महादानै गृहीतै द्विजसत्तम ? । नरकं समवाप्नोति अकृत्वा कायशोधनम् ॥१६॥