________________
+ श्रीगणेशाय नमः +
॥अथ ॥
* अरुणस्मृतिः *
प्रथमोऽध्यायः प्रतिग्रहवर्णनम्
अरुण उवाच प्रतिग्रहधनो विप्रो वदन्त्येवं महर्षयः । अन्ये (अन्ते) च नरकगतिकथमेतदसंशयम् ॥१॥ प्रतिग्रहे गृहीते तु कां गतिं तु द्विजो ब्रजेत् । कथं वा नरकान्मुच्येत् तन्मे ब्रूहि यथातथम् ॥२॥
आदित्य-उवाच प्रतिग्रहः काश्यपेय मध्वास्वादो विषोपमः। ब्राह्मणाय भवेन्नित्यं दाता धर्मेण युज्यते ॥३॥ जपो होमस्तथा दानं स्वाध्यायादि कृतं शुभम् । दातुः न प्रयते विप्र अतो न स्वर्गमाप्नुयात् ॥४॥ तानताय (प्रतिग्रह) गृहीत्वा तु प्रायश्चित्त समाचरेत् । स्वर्गों नश्यति विप्रे च प्रायश्चित्तमकुर्वति ॥५॥ प्रतिग्रहाद् ब्राह्मणस्य विद्वांसोवर्जयेत्ततः।
तथादेवाः प्रयच्छन्ति स्वान्लोकान् पूजिता नरैः॥६॥ १३३
.
.